पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 170, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - २२. ] दीपिकासहितम्. १२३
८. अधिकरणम् ॥
( १ ) ' को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आन
न्दो न स्यात् ' ( तै-२-७. ) इति आकाशस्यानन्द
मयत्वे हेतुरुक्तः न तु विष्णोः ।
( २ ) इति न मन्तव्यम् । यतः—
सू—ॐ ॥ आकाशस्तल्लिङ्गात् ॐ ॥ २२ ॥
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवति लोकतोऽन्यत्रप्रसिद्धाकाशपदोपलक्षि
ताधिभौतिकाशेषशब्दसमन्वयः क्रियते । फलकथनेन पूर्वपक्षः सूचि
तो भवतीत्याशयेन पूर्वपक्षफलमाह—को हीति ॥ इतीति । इत्यानन्दम
याधिकरणोदाहृतवाक्येनेत्यर्थः । तुशब्दस्याकाशस्य त्विति सम्बन्धः ।
तथा च छन्दोगश्रुत्युक्ताकाशाभिन्नाकाशस्यैवेत्यर्थः । ' आनन्दमय
त्वे ' पूर्णानन्दत्वेन निमित्तेन आनन्दमयशब्दवाच्यत्वे ' हेतुः ' लोक
चेष्टकत्वरूपः । तुशब्दार्थवकारव्यावर्त्यमाह—नेति । अनेन विष्णुभि
न्नभूताकाशस्यैव छन्दोगश्रुत्युक्ताकाशशब्दवाच्यत्वमिति पूर्वपक्षे
' को हि ' इति तैत्तिरीयश्रुत्युक्तोऽपि स एवेति तदुक्तहेतुना तस्यैवान
न्दमयत्वं सिध्यति, न विष्णोरिति फलमुक्तं भवति । पूर्वसङ्गतिस्त्व
धिकाशङ्कां कृत्वाऽत्र पूर्वन्याय एवातिदिश्यत इत्यातिदेशिकी द्रष्टव्या॥
( २ ) सिद्धान्तयति—इतीति ॥ कुतो न मन्तव्यमित्याशङ्कायां त
त्र हेतुतया सूत्रमुपादत्ते । यत इति । इदं चावर्तते । तत्राद्यस्य ' यत
श्चोदेति ' इतिवत् कुत इत्यर्थः । ' यच्छब्दस्तु परामर्शे प्रश्नार्थेऽपि च
भण्यते' इति भागवततात्पर्योक्तेः । द्वितीयस्तु न मन्तव्यमिति प्रति
ज्ञायां सूत्रार्थस्य हेतुत्वद्योतकः । विषयादेः पूर्वपक्षफलकथनेन सूच
नेऽपि मुखतोऽनुक्तेः तदनुवादपूर्वकं सूत्रं व्याचष्टे—अस्येति । ' इत्य
त्र ' वाक्ये प्रतिपाद्यत्वस्येति शेषः । चोऽप्यर्थः । यद्यपि तथापीत्यर्थे ।
' असौ ' आकाशोऽत्र वाच्य इति शेषः । सूत्रेऽनुवृत्तस्य ' तत्तु ' इत्य
स्यार्थो विष्णुरेवेति । इत्यादीति । लुप्तविभक्तिको निर्देशः आदिश
ब्दात् ' सर्वाणि भूतानि ' इत्यादिजगत्कारणत्वप्रतिपादकं वाक्यं गृह्य
ते । यथोक्तं तत्त्वप्रदीपे—“ सर्वाणि भूतानि ' इत्यादिना उदीर्यमाणं
जगदुत्पादकत्वादिकमादिशब्दादुपाददीत ” इति । लिङ्गपदं श्रुत्युप