सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 161, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 161

११४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
हि भागवते ।
( ३४ ) न च तत्तदनुमानविरोधः ।
( ३५ ) सू—ॐ ॥ कामाच्च नानुमा नापेक्षा ॥ ॐ ॥ १८ ॥
यथाकामं ह्यनुमातुं शक्यते । अतो न तत्त्वे पृथ
अरूपेणावस्थितिरेव मुक्तिरित्यर्थः । भागवत इत्यस्य प्रमादात्मकत्वोक्ते
रित्यनेनान्वयः ॥
( ३४ ) ननु भेदोक्तेः श्रुतिविरोधाभावेऽपि जीवो ब्रह्माभिन्नः चेत
नत्वात् ब्रह्मवत् । भेदो मिथ्या भेदत्वात् चन्द्रभेदवत् । विमतानि श
रीराणि मद्भोगायतनानि शरीरत्वात् मच्छरीरवत् । इत्यनुमानविरो
धस्तु भविष्यतीत्यत आह—न चेति ॥ चोऽविरोधसमुच्चये । तथा च
न केवलं श्रुतिविरोधाभावः, किन्तु तस्याः भेदोक्तेः तेनाद्वैतपरिक
ल्पितानुमानेन विरोधोऽपि नेत्यर्थः । अनेन सौत्रश्चशब्दो व्याख्यातः ॥
( ३५ ) तत्र हेत्वाकांक्षायां सूत्रमुपन्यस्य व्याचष्टे—कामादिति ॥
‘हि’ यतोऽभेदसाधनाय परोपन्यस्तं ‘अनुमानं’ अनुमानत्वेन परा
भिमतं ‘पृथक्’ प्रत्यक्षादिविरुद्धं श्रुतिसाहाय्यरहितं च अतः ‘तत्त्वे’
विषये ज्ञानोपलक्षकमेतत् । तत्त्वज्ञानार्थे ‘नापेक्ष्यते’ तत्त्वज्ञानकारणं
न भवतीत्यर्थः । न चाप्रयोजकता । ‘हि’ यतः ‘यथाकामं’ यथेच्छं
ईश्वरो न स्वतन्त्रः चेतनत्वात् देवदत्तवत् । जड आत्मा वस्तुत्वादित्या
दिरूपेण न तत्त्वे अतत्त्वेऽपि अनुमातुं शक्यते । अतः अनेन प्रत्यक्षादिवि
रुद्धस्यापि प्रमाणत्वे चेतनत्ववस्तुत्वादेरपि प्रमाणत्वं स्यात् अविशे
षादिति विपक्षे बाधकस्तर्क उक्तो भवति । सूत्रे ‘कामात्’ इत्येकदे
शोत्कीर्तनेन यथाकामादिति समग्रशब्दो लक्ष्यते ज्योतिश्शब्देन ज्यो
तिष्टोमशब्दवत् इत्याशयेन यथाकाममित्युक्तम् । हीत्यनेन पञ्चमी
व्याख्याता । ‘तत्त्वे’ इत्यनेनास्मिन्नित्यस्याकर्षोऽध्याहारो वा ज्ञापितः ।
‘अनुमानम्’ इत्यनेन ‘नानुमा’ इति भिन्नपदत्वं ‘पृथक्’ इत्यनेन न
ञो विरुद्धार्थकत्वमाश्रित्य ‘नानुमा’ इत्येकपदं च सूचितम् । ‘नापे
क्ष्यते’ इत्यनेन नशब्दघटितसमासमङ्गीकृत्य ‘नापेक्षा’ इत्यंशो व्या
ख्यातः । स्मृत्यनुसारेण सूत्रे भाष्ये च तत्त्वज्ञानासाधनत्वप्रकटनाय
पराभिमतानुमाने साधनगोचरेच्छाविषयत्वनिषेधः । तथा चायं सू
त्रार्थः—‘अनुमा’ अनुमानत्वेन पराभिमतमभेदसाधकमनुमानं ‘अ
स्मिंस्तत्त्वे’ तत्त्वज्ञानार्थे ‘नापेक्षा’ न अपेक्षा यस्यां सा तथोक्ता त