पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 14, कुल 1267 में से
संदर्भ में पढ़ेंश्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका. ( १३ )
अधि०। सूत्र०। विषयाः ।
२ १०-११ ज्योतिष्टोमादिशब्दाः परमात्मबोधकाः इति समर्थ-
नम् ॥
३ १२-१४ पञ्चजनादिशब्दाः परमात्मबोधकाः इति समर्थनम् ॥
४ १५ श्रुत्युक्तः आकाशशब्दः परमात्मबोधकः इति समर्थ-
नम् ॥
५ १६-२३ सर्वशब्दानां परमात्ममात्रवाचकत्वमिति, व्यवहारबा-
हुल्यात जगद्विषये प्रसिद्धिरिति च समर्थनम् ॥
६ २४-२८ स्त्रीलिङ्गशब्दा अपि परमात्मबोधका एव इति समर्थ-
नम् ॥
७ २९ निषेधादिवाचकशब्दा अपि परमात्मबोधका इति स-
मर्थनम् ॥
—::—
द्वितीयाध्यायस्य प्रथमः पादः ।
१ १-३ परमात्मनः जगज्जन्मादिकर्तृत्वे पाशुपतादिस्मृतिवि-
रोधस्य परिहारः ॥
२ ४-५ श्रुत्यादिप्रामाण्ये युक्तिविरोध परिहारः ॥
३ ६-७ मृदब्रवीत इति वचनात् अवगतमृत्कर्तृकवचनरूपा-
विद्यमानार्थप्रतिपादकत्वस्य परिहारः ॥
४ ८-१३ ब्रह्मणः जगत्कर्तृत्वे श्रुत्युपसर्जनप्रागभावकर्तृत्वसा-
धकयुक्तिविरोधपरिहारः ॥
५ १४ जीवेश्वरैक्यस्य निरासः ॥
६ १५-२१ परमात्मनः सृष्ट्यर्थं स्वतन्त्रसाधनापेक्षत्वस्य निरासः॥
७ २२-२७ जगत्सृष्टेः जीवकर्तृकत्वनिरासः ॥
८ २८-३२ ब्रह्मणः जगत्कर्तृत्वविषये जीवपक्षोक्तदोषस्य नि-
रासः ॥
९ ३३-३४ ब्रह्मणः जगत्कर्तृत्वविषये प्रयोजनवत्त्वादिदोषनि-
रासः ॥
१० ३५-३७ परमात्मनः वैषम्यनैर्घृण्यदोषनिरासः ॥
११ ३८ परमात्मनः सर्वगुणैः पूर्णत्वनिगमनम् ॥
—::—