पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 12, कुल 1267 में से
संदर्भ में पढ़ेंश्रीमद्ब्रह्मसूत्राधिकरणविषयसूचिका.
—::—
प्रथमाध्यायस्य प्रथमः पादः ।
—::—
अधि०। सूत्र०। विषयाः ।
१ १ ब्रह्मजिज्ञासायाः कर्तव्यत्वसाधनम् ॥
२ २ लक्षणकथनेन ब्रह्मणः विष्णुत्वसमर्थनम् ॥
३ ३ ब्रह्मलक्षणस्य अन्येषु अविद्यमानत्वप्रतिपादनम् ॥
४ ४ शास्त्रसमन्वयात् ब्रह्मण एव जगज्जन्मादिकारणत्वस-
मर्थनम् ॥
५ ५–११ ब्रह्मणः साकल्येन अवाच्यत्वेऽपि यत्किञ्चिद्रूपेण वा-
च्यत्वसमर्थनम् ॥
६ १२–१९ श्रुत्युक्तानन्दमयस्य ब्रह्मत्वसमर्थनम् ॥
७ २०–२१ श्रुत्युक्तः देहान्तःप्रविष्टः परमात्मैव नेन्द्रादिः इति स-
मर्थनम् ॥
८ २२ कतिपयश्रुतिषु उदाहृतः आकाशशब्दः परमात्मवाची-
ति समर्थनम् ॥
९ २३ कतिपयश्रुत्युक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥
१० २४ कतिपयश्रुत्युक्तज्योतिश्शब्दः परमात्मवाचीति समर्थ-
नम् ॥
११ २५–२७ गायत्रीशब्दः परमात्मवाचीति समर्थनम् ॥
१२ २८–३१ ऐतरेयके उक्तप्राणशब्दः परमात्मवाचीति समर्थनम् ॥
—:*:—
प्रथमाध्यायस्य द्वितीयः पादः ।
१ १–८ ऐतरेयके आपाततः आदित्ये विद्यमानतया प्रतीतस-
र्वगतत्वान्तर्गत सर्वप्राणिहृदयस्थत्वं परमात्मन्येव
वर्तते इति समर्थनम् ॥
२ ९–१० सर्वात्तृत्वं परमात्मन एव इतरस्य तु दत्तस्वातन्त्र्येण
स्वल्पात्तृत्वमिति समर्थनम् ॥
३ ११–१२ श्रुतौ द्वयोः पुरुषयोः प्रतिपादितं कर्मफलभोक्तृत्वं
आत्मान्तरात्मरूपद्वयेन एकस्य परमात्मन एवेति