सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1157, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1157

१११० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
' सर्वान् कामानाप्त्वाऽमृतः समभवत्समभवत् '
( पै. आ. २-५-१-१५.) इत्यादिश्रुतिभ्यः ॥ २३ ॥
( २ ) ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे ।
नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥
र्माणः उत्क्रमणेन त्यक्तदेहाः अर्चिरादिपथा यथायोग्यस्थाने स्थिताः
अण्डलयकाले स्वोत्तमान् प्रविष्टाः वैकुण्ठवासिनं हरिं प्राप्ताः हिरण्य
गर्भेण सह विरजास्नानेन भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयः अत्यन्त
निवृत्तानिष्टा भवन्ति । ये तु मनुष्योत्तमाः निष्कामुकभगवदर्थश्रुत्या
दिव्यिहितकार्यानुष्ठानेन शुद्धान्तःकरणाः प्रक्षीणरागादिदोषाः सञ्जा
तभगवद्भक्तिमन्तः श्रवणमनननिदिध्यासनाभ्यासवन्तः परमभागव
ताः स्वयोग्यभगवदपरोक्षानन्तरं अत्यन्तनिवृत्तानिष्टसञ्चितकर्माणः
आगामिदुष्कर्मलेपविधुरा यावत्प्रारब्धं भागवतधर्मनिष्ठाः उत्तरायण
मार्गेण त्यक्तदेहाः भगवल्लोकगमनार्थमर्चिरादिपथा महरादिलोके स
मासीनाः लयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्माण्डलयान्तरं लि
ङ्गशरीरभङ्गकाले उपस्थिते सुषुम्नामार्गेण त्यक्तान्यदेहाः हिरण्यगर्भे
ण सह विरजास्नानेन भिन्नलिङ्गशरीराः प्रध्वस्तस्वगुणाच्छादिकाः
विध्वस्तप्रकृतयः अत्यन्तवृत्तानिष्टा भवन्ति । ये त्वत्यल्पाः मानुषाः
स्थावराद्यश्च एकगुणोपासकाः कार्यब्रह्मकालान्त्यभागे स्वस्वयोग्या
वतारापरोक्षिणः उत्क्रमणार्चिरादिमार्गरहिताः प्रभुक्तोत्यल्पप्रारब्धक
र्माणः अण्डलयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्मणा सह त्यक्तलि
ङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तवृत्तानिष्टाः भवन्ति । ते सर्वेऽपि
महाप्रलये भगवदुदरे स्थित्वा पुनस्सृष्टौ भगवल्लोकाविर्भावे श्वेतद्वी
पगतभगवद्दर्शनेनापगतभगवदिच्छावरकाः सम्यगाविर्भूतज्ञानानन्दा
दिगुणाः वासुदेवपरिक्लृप्तस्वस्वयोग्यस्थानेषु स्थिताः भगवन्तमुपा
सीनाः सायुजः भगवद्देहे बहिश्च अन्ये बहिरेव स्वरूपदेहेन लीलागृही
तविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यान् भोगान् तारतम्येन भुञ्जानाः
न कदाचित्पुनरावर्तन्त इति ॥
( २ ) अथायं भाष्यकारो यं गुणगणार्णवतया आदौ प्रतिपादित
वान् । यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान् । यस्मि
न् श्वात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि न
मति--ज्ञानेति ॥ गुणैरित्यस्य विवरणं—सर्वैरिति । अनेन नम्यताप्र