सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1155, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1155

११०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
इति नारायणतन्त्रे ॥ २२ ॥
— * —
११. अधिकरणम् ॥
( १ ) सू– ॐ ॥ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ॐ ॥ २३ ॥
अथस्य कारणत्वोक्तेः प्रागुक्तो वृद्ध्यादौ कारणाभावहेतुरसिद्ध इति
वाच्यम् । बहुतरवृद्ध्यादिकारण शून्यत्वादिति हेतोर्विशेषणात् । इ
ति नारायणतन्त्रे विवक्षितार्थो विवृत इति शेषः ॥ १० ॥
॥ इति स्थित्यधिकरणम् ॥
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्म प्राप्यभोगान् भुञ्जानस्य मुक्तस्यापुनरा
वृत्तिस्समर्थ्यते । अस्ति मुक्तस्य पुनरावृत्तिः । स्वर्गादिगतानां पुनरा
वृत्तिदर्शनात् । न च स्वर्गादिगतानां युगमन्वन्तरादिमात्रवासित्वानु
क्ता पुनरावृत्तिः, न तु मुक्तस्य, तस्य समस्तकालवासित्वादिति वा
च्यम्