पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1141, कुल 1267 में से
संदर्भ में पढ़ें१०९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
सू—ॐ ॥ प्रकरणादसन्निहितत्वाच्च ॥ ॐ ॥ १८ ॥
जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च ।
(३) वाराहे च—
स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि ।
मुक्तानां नैव कामस्स्यादन्यान् कामांस्तु भुञ्जते ॥
तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते ।
न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत् ॥ इ
ति ॥ १८ ॥
(२) कुतः सर्वश्रुतेस्सङ्कोच इत्याक्षिपति—कुत इति ॥ तत्परि-
हाराय सूत्रं पठित्वा प्रतिज्ञायाः पूर्वसूत्रेणैव प्राप्तत्वात्तामनुक्त्वा सौ-
त्रहेतुं व्याचष्टे—प्रकरणादिति ॥ अस्य जीवप्रकरणत्वादित्यनेन सूत्रे
जीवेत्यादौ ग्राह्यं भावप्रधानो निर्देश इत्युक्तं भवति । अयं हेतुसाध-
को हेतुः । साक्षाद्धेतुस्तु अत्रोच्यमानस्य जीवत्वादिति जीवपदसूचि-
तः । तादृगिति । जगद्व्यापारशक्तिरहितत्वादित्यर्थः । अयं च हेतुः ।
साक्षाद्धेतोरप्रयोजकत्वशङ्कापरिहारकः । अत्रापि जीवत्वादित्येव हेतु-
स्सोऽपि द्वितीयजीवपदेन सूचितः, अत एव सूत्रे हेतूनां समुच्चये च-
शब्दः प्रायोजि ॥
(३) ननु संसारिजीवानां तादृक्सामर्थ्यविदूरत्वेऽपि सत्यकामा-
नां मुक्तजीवानां तत्सम्भवत्यतो जीवत्वहेतुरसत्यकामत्वोपाधियुक्तोऽ-
प्रयोजक इयतश्चशब्दसूचितां स्मृतिमुदाहरति—वाराहे चेति ॥ न
केवलं सूत्र इति चार्थः । अयमर्थ उक्त इति शेषः । स्वेति । स्वयोग्या-
दधिकेत्यर्थः । अपिस्समुच्चये । तुश्चार्थे । प्राप्तिश्च न स्यादिति उक्ता-
दन्यांस्तु कामयन्ते कामितांश्च भुञ्जत इत्यन्वयः । स्वाधिकेति उत्तरा-
धिकरणोपयोगितयोक्तम् । कुतोऽकाम इत्यत आह—तदिति । ‘कदा-
चित्क्वापि’ स्थाने अधिकानन्दे सृष्ट्यादिव्यापारे च ‘तेषां’ मुक्तानां
‘योग्यता’ सामर्थ्यं न विद्यत एव, यतोऽतो नैव कामः स्यादित्यन्वयः।
नन्वयोग्यस्याप्यप्राप्त्यकामौ कुतो, व्याप्त्यभावादित्यत आह—न चे-
ति । विशेषणान्तरसमुच्चयेऽपिः । तथा च सत्यकामोऽपीत्यर्थ इति के-
चित् । न केवलं संसारीत्यपरे । वस्तुतस्तु यः कोऽपीत्यर्थेऽपिशब्दः ।
अनेन व्याप्तिरुक्ता भवति । आद्यश्चोऽवधारणे । द्वितीयस्समुच्चये । इ