पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1132, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - ११. ] दीपिकासहितम्. १०८५
न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते' इत्येवं
कौण्डरव्यश्रुतावाह हि ॥ १० ॥
(२) सू— ॐ ॥ भावं जैमिनिर्विकल्पाम्नानात् ॥ ॐ ॥ ११ ॥
'स वा एष एवं वित्परमभिपश्यत्यभिशृणोति ज्यो-
तिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन
वाऽथानन्दी ह्येवैष भवति नानानन्दं कंचिदुपस्पृश-
न्नित्यन्वयः। 'एवं' मुक्तानां प्राकृतदेहाभावं, श्रुताविति सप्तमी प्रथमा-
र्थे। 'हि' यस्मात् । अनेन आहेति सौत्रपदस्यावृत्तिस्सूचिता। श्रुत्य-
र्थस्तु— 'तदा' मुक्तिकाले 'एषः' मुक्तः 'अशरीरो वाव' प्राकृतदेह-
शून्य एव भवति यतोऽत एनं न 'प्रियाप्रिये' सुखदुःखे स्पृशतः।
अशरीरं सन्तमित्यनुवादः । प्रियाप्रियस्पृष्ट्या भवदनिष्टमाह— याभ्यां
प्रियाप्रियाभ्यामिति । अनेनात्र प्रियशब्देन 'परेयं प्रियनामकम्' इत्यु-
क्तेः पराधीनसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति सूचितम् ।
तस्यैवानित्यत्वविकारित्वादिरूपोन्मादापादकत्वादिति तत्त्वप्रदीपो-
क्तेः। यद्यपि 'न हवै शरीरस्य' (छा.८-१२-१.) इति छान्दोगेऽपि श्रुतिर-
स्ति । तथाऽपि सा परमात्मपरेति नात्रोदाहृता ॥
(२) मुक्तानां देहसद्भावमभ्युपगच्छत्सूत्रमुपन्यस्यति— भावमि-
ति ॥ पूर्ववद्विपरिणामानुवृत्त्यध्याहाराः कर्तव्याः । तथा च जैमिनिर्मु-
क्तानां चितिमात्रेणविना तदन्यस्य प्राकृतदेहस्यापि 'भावं' सद्भावं
मन्यते । कुतः ? 'विकल्पाम्नानात्' चिन्मात्रदेहेनैवावतिष्ठते इत्यनु-
क्त्वा श्रुतौ 'चिता वाऽचिता वा' इति विकल्पोक्तेरिति सूत्रार्थमभिप्रे-
त्य श्रुत्युदाहरणपूर्वकं तद्व्याचष्टे— स इति । 'परं' परमात्मानं 'एवं'
उक्तप्रकारेण 'वित्' अपरोक्षज्ञानी 'स एषः' मुक्तः 'चिता' अप्राकृ-
तचैतन्यात्मकेन वा 'अचिता' शुद्धसत्त्वात्मकप्राकृतकर्मानारब्धजडा-
त्मकेन वा 'ज्योतिषा' प्रकाशमानेन 'रूपेण' शरीरेणैव 'अभिपश्य-
त्यभिशृणोति' दर्शनश्रवणोपलक्षितसर्वविषयानुभववान्भवतीत्यर्थः।
तेन च 'आनन्द्येव' व्यक्तसुखवानेवैष भवति न दुःखी। हीति प्रसि-
द्धम् । कुतो ? 'हि' यतो 'नानानन्दं' आनन्दविरुद्धं दुःखं 'कञ्चि-
त्' कमपि मुक्तं नोपस्पृशत्यत इत्यर्थः। अत्र नित्येनेत्येतत् चितेत्यस्य
अनित्येनेत्येतत् अचितेत्यस्य विशेषणम्, न तु विकल्पद्वयमत्रोच्यते ।
उभयत्रवाशब्दोऽवधारणार्थः। तत्राचितोऽनित्यत्वं नाम स्वस्य स-