सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1125, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1125

१०७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ]
(२) 'स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिसृज्य ब्रह्मा
भिसम्पद्य ब्रह्मणा पश्यति ब्रह्मणा शृणोति ब्रह्मणैवेदं
सर्वमनुभवति' इति माध्यन्दिनायनश्रुतावुपन्यासात् ।
(३) आदत्ते हरिहस्तेन हरिदृष्ट्यैव पश्यति ।
गच्छेच्च हरिपादाभ्यां मुक्तस्यैषा स्थितिर्भवेत् ॥ इति
स्मृतेः ॥
(४) गच्छामिं विष्णुपादाभ्यां विष्णुदृष्ट्या च दर्शनम् ।
इत्यादिपूर्वस्मरणान्मुक्तस्यैतद्भविष्यति ॥
'ब्राह्मेणैव देहेन सन्तः' तदतिरिक्तदेहरहिता इत्यभ्युपगम्यते । कुतो
देहाभावः ? यतः सर्वदेहपरित्यागेन मुक्ताः । अभेदे तृतीया । सर्वदे
हपरित्यागरूपमुक्तियुक्ता इति । न च देहाभावे भोगायोगः । यतः
स्वदेहाभावेऽपि ब्राह्मेणैव ग्रहवद्भोगान् भुञ्जते अत इति जैमिनिराचा
र्यो मन्यते इति ॥
(२) कुत एतदित्यतः उपन्यासादिति हेतुं तत्पदसूचितश्रुत्युदा
हरणपूर्वकं व्याचष्टे—स इति ॥ 'उपन्यासात्' उक्तत्वादित्यर्थः । श्रु
त्यर्थस्तु—'स एष ब्रह्मनिष्ठो' ब्रह्मज्ञानी 'मर्त्यं' विनाश्यं 'इदं' प्रत्य
क्षसिद्धं स्थूलसूक्ष्माख्यं देहं 'अतिसृज्य' विसृज्य परं ब्रह्म प्राप्य
परब्रह्मणा तद्देहेन पश्यति शृणोति च, इदं सर्वं भोग्यमनुभवति ब्र
ह्मणेति ॥
(३) नन्वत्र मुक्तभोगो ब्रह्मणा श्रूयते, न पुनस्तद्देहेनेति श्रुतौ
ब्रह्मणैत्यस्य तत्प्रसादादित्यप्यर्थसम्भवादित्यत उपन्यासादित्येतच्छ्रु
त्यन्तरसूचकतया व्याचष्टे—आदत्ते इति ॥ 'हरिदृष्ट्या' विष्णुच
क्षुषा ॥
(४) ननु स्वयं देहविधुरस्य कथमन्यदेहेन भोगो युज्यते प्र
लयादावभावादित्यतः सौत्रादिशब्दगृहीतां युक्तिमसिद्धिवारणाय
स्मृत्यैव दर्शयति—गच्छामीति ॥ मुक्ताविति शेषः । तथा चाहं मुक्तौ
विष्णुपदाभ्यां गच्छामि गमिष्यामि 'विष्णुदृष्ट्या' तच्चक्षुषा तु तेनैव
मे दर्शनं भविष्यतीत्याद्युपासनानुसारेण पूर्वस्मिन् संसारकाले स्म
रणरूपोपासनात् मुक्तस्य सायुज्यमुक्तियोग्यस्य 'एतत्' अन्यदेहेन
भोजनं मुक्तौ भविष्यतीत्यर्थः । यद्वा—मुक्तेः पूर्वं संसारदशायां अहं
स्वदेहस्थविष्णुपादाभ्यां गच्छामि तत्रस्थविष्णुदृष्ट्यैव दर्शनं करो