पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1117, कुल 1267 में से
संदर्भ में पढ़ें१०७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ]
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्ब-
नान् परं नयति ।
‘ स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति त-
त्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ’ ( बृ. ६-
४-५० ) इति श्रुतेश्च । अत्र कर्मोपासनमेव अन्यान्का
यै नयतीति भगवन्मतम् ॥ १५ ॥
( १३ ) सू—ॐ ॥ विशेषं च दर्शयति ॥ ॐ ॥ १६ ॥
‘ अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशा देवा वाव
सर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिः
रिं यान्ति, तदन्ये प्रतीकालम्बना वायुं, ‘अपक्वाः’ समाधिपरिपाक-
रहितास्तु हरिं वायुं वा न यान्तीत्येवं पारयोगिनां प्रथमतां वायुशब्दि-
तचतुर्मुखप्राप्तिनिषेधेऽपि स्थानपदोक्तमहर्लोकादौलोके किञ्चित्कालं
साधनमनुष्ठाय वायुद्वारा कालान्तरं चतुर्मुखप्राप्त्यङ्गीकारे विरो-
धाभावादिति भावः । अथ ‘संहारे’ सर्वकार्यात्ययरूपे प्रलये
प्राप्ते तु ब्रह्मणा चतुर्मुखेन सह ‘परमं पदं’ ब्रह्म गच्छेयुरित्यर्थः ।
‘सः’ ईश्वरो ‘यथाकामो भवति’ यदिच्छावान् भवति जीवोऽपि
तथाकामो भवति ‘तत्क्रतुर्भवति’ इत्थं करिष्याम्येवेति निश्चयरूप-
कामनावान् भवति । स जीवो ‘यत्क्रतुः’ यन्निष्ठावान् भवति ‘तत् ’
तादृशं तद्विषयमुपासनाख्यं कर्म कुरुते ततश्च ‘तदभिसम्पद्यते’ त-
दापरोक्ष्यवान् भवति अथ तत्प्राप्तिरूपफलं च ‘अभिसम्पद्यते’ प्रा-
प्नोतीति बृहद्भाष्यदिशा श्रुत्यर्थो ज्ञातव्यः ॥
( १३ ) यदुक्तं नेच्छानुसारण प्राप्तिः, अपि तु प्रतीकालम्बनादिक्रमे-
णैवेति, तन्न, केचिदप्रतीकालम्बनाः केचित्प्रतीकालम्बना इति नियमे
प्रमाणाभावेन यथेष्टमप्रतीकालम्बनत्वापादनस्यापि सम्भवादित्याश-
ङ्कां श्रुत्या परिहरत्सूत्रं पठित्वा तां श्रुतिमुदाहरति—विशेषं चेति ॥ उ-
च्यत इति शेषः । अन्तर्बहिस्सर्वत्रेति क्रमेण विभक्तान् ज्ञानिनः प्राधा-
न्यक्रमेण निर्दिशति—देवा इति । प्रतीकालम्बनेतरमनुष्योत्तमास्तु ब-
हिर्दृष्टय इत्यर्थः । चतुर्वेदशिखायां श्रुतमिति शेषः । अस्य सूत्रेणान्व-
यः । सूत्रार्थस्तु—‘चो’ यतश्चतुर्वेदशिखायां श्रुतं ‘अन्तःप्रकाशाः’
इति वाक्यमधिकारिणां ‘विशेषं’ अप्रतीकालम्बनत्वादिरूपं ‘दर्शय-