सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1112, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1112

[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०६५
स्तु समीपत एव परमपि प्राप्नोतीत्येतदर्थ एव ॥ ९ ॥
(५) कदा ?
सू- ॐ ॥ कार्यात्यये तदध्यक्षेण सहानः परमभिधानात् ॥ ॐ ॥ १०॥
'ते ह ब्रह्माणमभिसम्पद्य यद्वैतद्वितीयनेऽथ सह ब्रह्म
णा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रलये तद्
ध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ १० ॥
वक्तीति न विरोध इति वाक्यशेषः । न तु चतुर्मुखप्राप्तिं प्रतिषेध
ति, नापि परब्रह्मप्राप्तिं ब्रूते इत्येवशब्दार्थः । तथा चेत्थं योजना- यत
स्तद्द्वयपदेशा 'ब्रह्मविदाप्नोति परम्' इति श्रुतिस्तु 'सामीप्यात्' का
र्यपरप्राप्त्योः कालसामीप्यनिमित्तादेव प्रवृत्ता ज्ञानी कार्यप्राप्तेः समी
पकाल एव कार्यं प्राप्याचिरेणैव परमपि प्राप्नोतीत्येतदर्थमेव वक्ति, न
तु कार्यप्राप्तिं प्रतिषेधति, अवधारणशून्यत्वात्, नापि प्रथमत एव प
रप्राप्तिं ब्रूते तच्छब्दाभावादिति यावत् । अतो न तद्विरोधः कार्यप्रा
प्तिवचनस्येति । सामान्यश्रुतेः 'यदि ह वा' इति विशेषश्रुत्या बाधोप
पत्तेरिति भावः ॥
(५) ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः । प्रलयादर्वा
क्प्रलय एव वा । नाद्यः । प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रा
पि बाधकत्वसाम्यात् । तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः । न द्वि
तीयः । विशेषप्रमाणाभावादिति भावेन पृच्छति- कदेति ॥ कस्मिन्
काले परं प्राप्नोतीत्यर्थः । तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे- का
र्यात्यय इति । श्रुतेरित्यनेनाभिधानादित्यस्य महाप्रलये इत्यनेन कार्या
त्यय इत्यस्य ब्रह्मणत्यनेन तदध्यक्षेनेति पदस्य चार्थ उक्तो भवति ।
गच्छतीति शेषोक्तिः । अनेन सूत्रे ज्ञानी 'कार्यात्यये' सकलकार्याणां
विनाशरूपप्रलये 'तदध्यक्षेण' तेषां कार्याणां स्वामिना चतुर्मुखेन
सह 'अतः' चतुर्मुखात्तद्द्वारा 'परं' सर्वोत्तमं ब्रह्म गच्छतीत्यभ्युप
गम्यते । अतो नोक्तविकल्पावकाशः, द्वितीयपक्षाङ्गीकारात् । न च
बद्धत्वविरोधः । प्रलये ज्ञानिनां लिङ्गशरीरान्मुक्तत्वेन तदभावादिति
भावः । न च तत्प्रमाणाभावः 'अभिधानात्' 'ते ह' इति श्रुतेरिति
सूत्रार्थ उक्तो भवति । सूत्रे तदध्यक्षेनेत्युक्तिप्रयोजनं चतुर्मुखस्य का
र्यप्रपञ्चाधिकृतत्वात्तद्ब्रह्मजिगमिषूणां तेनैव सहगमनं युक्तम् । न तम
तिहायेति युक्तिसूचनमिति तत्त्वप्रदीपेऽभिहितम् । श्रुत्यर्थस्तु--'ते'
१३४