पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1096, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ९. सू - २१. ] दीपिकासहितम्. १०४९
(११) शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मयः ।
तावन्त एव निर्दिष्टा उत्तरायणरश्मयः ॥
ते सर्वे देहसम्बद्धाः सर्वदा सर्वदेहिनाम् ।
महर्लोकादिगन्तार उत्तरायणरश्मिभिः ॥
निर्गच्छन्तीतरे तैश्चापि यैरेष्टव्येतरा गतिः ।
उत्तरं दक्षिणमिति त एव तु निगद्यते ॥
न तु कालविशेषोऽस्ति ज्ञानिनां नियमात्फलम् ।
(११) कुत इत्यतः प्रवृत्तमित इति हेत्वंशं प्रकृतसम्बन्धपरामर्शक
तया स्पष्टत्वात् अव्याकृत्य समग्रसूत्रार्थं स्मृत्या विशदयति—शतमिति ॥ सूर्यस्य दक्षिणायनरश्मयः ‘शतं पञ्चैव’ पञ्च शतान्येवेत्यर्थः ।
‘तावन्त एव’ पञ्च शतान्येव ते रश्मयः । उभयेषां प्रयोजनमाह—महर्लोकादीति । महर्लोक एव आदिर्येषां ते महर्लोकादयः तान् गन्तारः प्रतीकालम्बनाः । अतद्गुण