पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1091, कुल 1267 में से
संदर्भ में पढ़ेंउत्क्रान्तिक काले हृदयस्याग्रज्वलनं भवति । ' तस्य है
तस्य हृदयस्याग्रं प्रद्योतते ' ( बृ. ६-४-२. ) इति श्रु
तेः । तत्प्रकाशितद्वारो निष्क्रामति । विद्यासामर्थ्यात् ।
( २ ) यंयं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ।
तंतमेवैति कौन्तेय सदा तद्भावभावितः ॥ ( गी. ८-६. )
माश्रित्य तदित्यस्यार्थोक्तिः । तस्मिन्नुत्क्रान्तिकाल इति । अत एव त
त्स्वप्रदीपे तदोत्क्रान्तिकाल इति तदर्थोक्तिः । विदुष इति शेषः । तेन
तच्छब्दस्य विदुष इति चार्थः । तदोकस इत्यस्य भगवदोकसो हृद
यस्येत्यपि तच्छब्दार्थ इत्याशयेन ओकशब्दितं स्थानं दर्शयति--हृ
दयस्येति । अग्रे ज्वलनं प्रकाशो भवति । अग्रं प्रकाशत इति फलि
तार्थः । हृदयस्याग्रज्वलनं भवतीति कुतो ज्ञायत इत्यतस्तच्छब्दसू
चितश्रुतेरेवेत्याह--तस्येति । ' तस्य ' उत्क्रमिष्यतः ' एतस्य ' ज्ञा
निनो हृदयस्याग्रं प्रकाशते । ' ह ' खलु इत्यर्थः । अत्र तस्येति मरण
वैशिष्ट्यमात्रपरमिति प्रमेयदीपोक्तिः, अस्यान्यथा वैयर्थ्यापत्तेरिति
भावः । 'श्रुतेः ' छन्दोगश्रुतेर्वाजसनेयश्रुतेश्चेत्यर्थः । हृदयाग्रप्रवेशनेऽपि
ज्ञान्युत्क्रमणस्य को विशेष इत्यतो निष्क्रामतीति पदाध्याहारेण तत्प्र
काशित इत्यंशं व्याचष्टे—तत्प्रकाशित इति । तेन प्रकाशेन प्रकाशित
नाडीद्वारस्सन्नित्यर्थः । ' निष्क्रामति ' देहात् ज्ञानी, अतोऽस्ति विशेष
इति वाक्यशेषः । ननु ज्ञानिनः प्रारब्धकर्मवतः कथमयं विशेष इत्य
तः प्रवृत्तं विद्यासामर्थ्यादित्यंशं व्याचष्टे—विद्येति । भगवत्साक्षात्का
रसामर्थ्यादित्यर्थः । तथा च प्रारब्धकर्मसद्भावेऽपि ज्ञानिनो ज्ञानसा
मर्थ्याद्विशिष्टोत्क्रान्तिर्युज्यते । ज्ञानस्य स्वोदयमारभ्यैव फलप्रदत्वा
दिति भावः ॥
( २ ) यदि ज्ञानिनः ज्ञानसामर्थ्यादेवमुत्क्रमणं भवति, तर्हि ज्ञानिनः ज्ञा
नजन्मदेहवियोगाख्यप्रथममरणमेवैवं किं न स्यादित्यतः—तच्छेषग
त्यनुस्मृतियोगादित्यंशः प्रवृत्तः, तं व्याचष्टे—यं यमिति ॥ हे ' कौन्ते
य ' अर्जुन ' अन्ते ' अन्त्यकाले यंयं वापि ' भावं ' आकृतिविशेषं पदा
र्थं वा पूर्वकर्मानुवशात् स्मरन् ' कलेबरं ' देहं त्यजति पुरुषः सः तंतं
तमेव भावं ' एति ' प्राप्नोति । अन्त्यकालस्मरणे उपायमाह—सदा त
द्भावभावित इति । भावोऽन्तर्गतं मनः तस्मिन्नाकारे पदार्थे वा भाव
स्तद्भावस्तद्विषयकं मनः तेन भावितोऽतिवासित इत्यर्थः । अत्र भावि