पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1083, कुल 1267 में से
संदर्भ में पढ़ें१०३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - १. ]
अतस्तस्य ये विशेषगुणास्तेषामनुपमर्देनैव साम्यम् ।
(६) देशतः कालतश्चैव समा प्रकृतिरीश्वरे ।
उभयोरप्यबद्धत्वं तद्बन्धः परात्मनः ॥
स्वत एव परेशस्य सा चोपास्ते सदा हरिम् ।
प्रकृतेः प्राकृतस्यापि ये गुणास्ते तु विष्णुना ॥
ण्यं तन्मात्रनिष्ठत्वं तस्य 'अनुपमर्देन' अबाधेन तस्याः प्रकृतेः तेन प
रमेश्वरेण तेन नित्यमुक्तत्वादिन साम्यमस्त्येवेति सूत्रार्थ इत्यभिप्रे
त्य सूत्रं व्याचष्टे—अत इति । 'विशेषगुणाः' असाधारणगुणाः स्वा
तन्त्र्यादयः । तेषामनुपमर्देनेत्यस्य तेषामसाधारण्यस्यानुपमर्देनेत्य
र्थः । अन्यथा लक्ष्मीस्वातन्त्र्यादावपि विष्णुस्वातन्त्र्यादेरबाधादस
ङ्गतत्वापत्तेः । तन्मात्रनिष्ठत्वरूपासाधारण्यस्य तु अस्त्येव बाध इति
भावः । साम्यमस्तीति शेषः । अनेनैवशब्दस्यान्वयः ॥
(६) यदि प्रकृतेरीश्वरेण नित्यमुक्तत्वादिसाम्यं तर्ह्यस्त्येव विशे
षगुणासाधारण्योपमर्दः, प्रकृतेर्नित्यमुक्तत्वे तत एव स्वातन्त्र्यप्राप्तेरि
त्यत आह—देशत इति ॥ 'ईश्वरे' ईश्वरेण 'उभयोः' प्रकृतीश्वर
योः 'अबद्धत्वं' नित्यमुक्तत्वमित्यर्थः । अस्तीति शेषः । अपिः यद्यपि
तथाऽपीत्यर्थोऽबद्धत्वमित्यस्यानन्तरं योज्यः । नित्यमुक्तत्वादिसाम्ये
ऽपि न स्वातन्त्र्यादि प्रकृतेरित्याह—तद्बन्ध इति । स चासावबन्ध
श्च तद्बन्धः परमात्मनः परेशस्येति सामानाधिकरण्यम् । तथा च
यद्यप्युभयोरबद्धत्वमस्ति, तथाऽपि 'परमात्मनः' परमचेतनस्य 'प
रेशितुः' विष्णोः 'तद्बन्धः' अबद्धत्वमित्युक्तोऽबन्धः 'स्वत एव'
अपराधीन एव, न प्रकृतेरतो न तस्याः स्वातन्त्र्यादीत्यर्थः । अथ
वा—' तद्बन्धः' तस्याः प्रकृतेरबन्धः नित्यमुक्तत्वं 'परमात्मनो' ह
रेः सकाशादागतं, परस्य तु स्वत एवेति वैयधिकरण्येनान्वयः । प्रकृ
तेर्हर्यधीनाबद्धत्वे युक्तिमाह—सा चेति । 'चो' यतः 'सा' प्रकृतिः
'सदा हरिमुपास्ते' सदा हरिसमीपे तिष्ठति अतो नित्यमुक्तत्वं तस्या
इति भावः । यद्वा--प्रकृतेरबद्धत्वे उपासनात्रैय्यर्थ्यमित्यत उपासनं न
फलार्थं, किन्तु आदरादित्युक्तन्यायेन स्वाभाविकमित्याह—सा चेति।
चोऽवधारणे । स्वभावत इति शेषः । गुणान्तरेऽपि हर्यधीनत्वं प्रकृते
रित्याह--प्रकृतेरिति । 'गुणाः' ज्ञानानन्दाद्याः विष्णुना नियताः । न
केवलं प्रकृतेः, किन्तु 'प्राकृतस्य' ब्रह्मादेर्ये गुणाः 'ते तु' तेऽपि 'वि