सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1070, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1070

[ अधि - १. सू - १. ] दीपिकासहितम्. १०२३
१. अधिकरणम् ॥
( १ ) देवानां मोक्ष उत्क्रान्तिश्चास्मिन् पाद उच्यते—
सू—ॐ ॥ वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ॐ ॥ १ ॥
वागभिमानिन्युमा मनोऽभिमानिनि रुद्रे विलीयते ।
वाचो मनोवशत्वदर्शनात् । 'तस्य यावन्न वाङ्मन
१. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—देवानामिति ॥ स्वपदं गतानां देवा-
नां उत्तरोत्तरप्रवेशात्मको देहान्मोक्षः स्वपदगदेवभिन्नानां मानुषश-
रीराणां ज्ञानिनां देहाद्ब्रह्मनाड्योत्क्रान्तिश्चास्मिन् चतुर्थस्य द्वितीयपा-
दे उच्यत इति योजना । तत्राधिकार्याधिक्यक्रमात् प्रथमं देवानां
लयो निगद्यते पश्चादितरेषामुत्क्रान्तिरिति भावः । न चैवं पादभेदप्र-
सङ्गः । चतुर्मुखादिदेवानां मनुष्याणां च बह्वल्पगुणविषयकत्वेन उपा-
सनेऽवान्तरभेदे विद्यमानेऽप्युपासनत्वेनैकीकरणवदत्रापि देहलयत्वे-
नैकीकरणसम्भवात् । तत्र प्रथमाधिकरणे वाचो मनसि लयः समर्थ्य-
ते । तत्र न वाङ्मनसि लीयत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य-
ति—वागिति । अत्र वाङ्मनश्शब्दार्थोक्तिपूर्वकं विलीयत इति पदा-
ध्याहारेण सूत्रं व्याचष्टे—वागभिमानीति । अत्रोमारुद्रपदाभ्यां लक्ष-
णया वारुणीशेषौ सौपर्णीसुपर्णौ च प्रतिपाद्येते । लक्षणाबीजं तु उमा-
त्ववारुणीत्वादीनामेकद्रव्यसम्बन्धः सौपर्ण्यादीनां पदसादृश्यं चेति
सुधोक्तं द्रष्टव्यम् । तत्त्वप्रदीपे तु उमारुद्रादीनामुपरि वारुणीशेषादि-
भावात् तदानीमपि तेषु पूर्वप्रसिद्धनामप्रयोगोऽर्जुनादिशरीरपातेऽपि
स्वर्गारोहणादिकेऽर्जुनादिशब्दप्रयोगवद्भूतपूर्वगत्या न विरुद्ध इत्युक्त-
म् । कुत इत्यतो—दर्शनादित्येतत् शब्दादित्यनेन पौनरुक्त्यपरिहाराय
प्रत्यक्षपरतया व्याचष्टे—वाच इति । प्रत्यक्षतयैवेत्यादावुपस्कर्तव्यम् ।
मनोऽनुसारेणैव वाक्प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः । शब्दादि-
त्येतच्छ्रुतिप्रदर्शनेन व्याचष्टे—तस्येति । छन्दोगश्रुतिरियम् । अत्र जी-
वस्य मरणकाले अस्वातन्त्र्यं प्रतिपादयितुं तत्त्वाभिमानिदेवताव्यापा-
रोपरमः प्रतिपाद्यते । अत एव प्रमेयदीपे वागिति वाक्येनोत्क्रमणे प-
रदेवता वागादीन्याकर्षतीत्युच्यते इत्युक्तम् । 'तस्य' म्रियमाणस्य
पुरुषस्य यावत्पर्यन्तं वागभिमान्युमा मनोऽभिमानिनि ' न सम्पद्यते '