सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1068, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1068

[ अधि - ८. सू - १९. ] दीपिकासहितम्. १०२१
आरब्धपुण्यपापे भोगेन क्षपयित्वा ब्रह्म सम्पत्स्यते ।
अथेति नियमसूचकः ।
(१४) आरब्धपुण्यपापस्य भोगेन क्षपणादनु ।
प्राप्नोत्येव तमो घोरं ब्रह्म वा नात्र संशयः ॥
ब्रह्मणांशतकालात् पूर्वमारब्धसंक्षयः ।
नियमेन भवेन्नात्र कार्या काचिद्विचारणा ।
स्यति-भोगेनेति ॥ अत्र तुशब्दो ज्ञानिनः प्रारब्धभोगे उपमर्दं चेत्युक्त
विशेषद्योतक इति भावेन सूत्रं व्याचष्टे-आरब्धपुण्यपापे इति । अनेन
इतरे इत्येतत् प्रकृतानारब्धकार्यकपुण्यपापेतरपरामर्शकमित्युक्तं भव
ति। 'भोगेन' कार्यद्वाराऽनुभवेन 'क्षपयित्वा' विनाश्यानन्तरम् । ब्रह्मेति
शेषोक्तिः । तमो वेत्यस्याप्युपलक्षणमेतत् । 'सम्पत्स्यते' ब्रह्मदर्शी
ति शेषः । इतर इति च विपरिणामेनात्राप्यन्वीयते । तथा च ब्रह्मद
र्शी ब्रह्म 'सम्पत्स्यते' 'इतरो' ब्रह्मद्विट् तमः 'सम्पत्स्यते' प्राप्नो
तीति योजना । अतो न प्रारब्धकर्मसद्भावेन मोक्षाद्यभावः शङ्क्य इति
भावः । ननु यथा ज्ञानानन्तरं न मोक्षो नियतः, यथा चोपासनानन्त
रं ज्ञानमनियतं, तथा कर्मक्षयानन्तरमपि मोक्षोऽनियत इति शङ्कानि
वर्तकतयाऽथशब्दं व्याचष्टे--अथेति । शब्द इति शेषः । अनेनाथेत्येत
त् अनन्तरमेवेति व्याख्यातं भवति ॥
(१४) कुतोऽयं नियमो ज्ञायत इत्यत आह—आरब्धेति ॥ 'क्षपणात्'
नाशादन्वनन्तरमेवेत्येवकारान्वयः । ब्रह्म प्राप्नोति 'घोरं' असह्यदुःखं
तमो वा प्राप्नोतीति 'अत्र' अर्थे न संशय इत्यर्थः । ब्रह्मदर्शी ब्रह्मद्वि
डिति च शेषः । प्रत्येकमस्यान्वयः । अतो नियमः सिद्ध इति वाक्यशे
षः । नन्वारब्धभोगस्य निरवधिकत्वे ज्ञानिद्वेषिणोः ब्रह्मतमःप्राप्ती अ
नुपपन्ने इत्यत आह—ब्रह्मणामिति । अत्र ब्रह्मणांशतमिति षष्ठ्या अ
लुक् । तस्य कालो ब्रह्मणांशतकालः तस्मात् तत्समाप्तेः 'पूर्वे तु' पू
र्वमेव सर्वेषां ज्ञानिनां 'आरब्धसंक्षयः' प्रारब्धनाशो भवतीत्यर्थः ।
शतकालानन्तरं न कस्यापि प्रारब्धानुवृत्तिः । किन्तु तत्समाप्तिपर्यन्त
मेवेति भावः । 'अत्र' नियमस्य 'काचित्' क्वचित् 'विचारणा' व्य
भिचारो नेत्यर्थः । इदमेव वाक्यं तत्त्वप्रदीपरीत्या ब्रह्मणामित्यस्यावृ
त्तिं तत्रैकस्य समासप्रवेशं चाश्रित्य ब्रह्मणामपि ब्रह्मणांशतकालात्पूर्व
मेवारब्धसंक्षयो भवति, एवं ततोऽपि पूर्वे पूर्वमनन्तादीनामिति व्या