पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1059, कुल 1267 में से
संदर्भ में पढ़ें१०१२ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - ४. पा - १. ]
८. अधिकरणम् ॥
( १ ) सू- ॐ ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ त-
द्व्यपदेशात् ॥ ॐ ॥ १३ ॥
ब्रह्मदर्शन उत्तराघस्याश्लेषः पूर्वस्य विनाशश्च । ' त-
द्यथा पुष्करपलाश आपो न लिप्यन्त एवमेवंविदि
पापं कर्म न लिप्यते' (छा. ४-१४-३.) ' तद्यथेषीका-
तूलमग्नौ प्रोतं प्रदूयेत एवं हैवास्य सर्वे पाप्मानः प्रहू-
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे प्रासङ्गिकं समाप्य कर्मक्षयाख्यफलसिद्धि-
स्साध्यते । प्रागापादितकर्मणां भावात् न ज्ञानेन मोक्षस्सम्भवतीति
पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति—तदिति । अत्र सम्भवत्येव ज्ञाने-
न मोक्ष इति साध्याध्याहारं, तद्धेतुत्वेन तदधिगम उत्तरपूर्वाघयोरि-
त्यस्यान्वयं, तत्साधकतया तद्व्यपदेशादित्यस्य प्रवृत्तिं चाभिप्रेत्य सू-
त्रं व्याचष्टे—ब्रह्मदर्शन इति ॥ निमित्तसप्तम्येषा । ब्रह्मदर्शनादित्यर्थः ।
अनेन सूत्रे तच्छब्दो ब्रह्मदृष्टिरिति प्रकृतब्रह्मपरामर्शी । अधिगमो ज्ञान-
म्, निमित्तार्थे सप्तमीत्युक्तं भवति । ' उत्तराघस्य' ज्ञानोत्तरकालीन-
पापस्याश्लेषः फलतः । पूर्वस्येत्यनन्तरमघस्येति बुद्ध्या विवेकेनानुष-
ज्यते । अप्रारब्धस्येति शेषः । ' विनाशः ' स्वरूपतः । चः समुच्चये ।
भवति यत इति शेषः । अस्याध्याहृतसाध्येनान्वयः । उत्तराघस्याश्ले-
षो नाम नानन्दह्रासकरत्वाभावः, किन्तु पारलौकिकज्ञानोत्तरपापफ-
लनरकादिश्लेषाभावरूपोऽलेपः, तथा ऐहिकज्ञानोत्तरपापफलाशुचि-
त्वासम्भाष्यात्वादिसंश्लेषाभावश्चेति द्रष्टव्यः । यथोक्तं—
ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।
अशुचित्वादिकं चास्य न भवेदिति तत्फलम् ॥
इति अनुव्याख्यानसुधयोः । कुत एतदुभयं ज्ञानाद्भवतीति, तथास-
ति 'नाभुक्तम्' इति स्मृतिविरोधापातात् । न च तस्या अज्ञा-
निकर्मविषयत्वं, बाधकाभावादित्यतस्तद्व्यपदेशादित्यंशं तस्मिन् त-
स्य तयोरित्यावृत्त्यभिप्रायेण व्याचष्टे—तद्यथेति । इतीति । एवंरूपे
छन्दोगश्रुतिद्वये इत्यर्थः । तद्व्यपदेशादिति । तस्य ज्ञानिनस्तयोरश्लेष-
विनाशयोरुक्तत्वादित्यर्थः । तथा च श्रुतिरेव बाधिकेति भावः । श्रुत्य-
र्थस्तु—'तत्' तत्रार्थे वक्ष्यमाणदृष्टान्तो 'यथा पुष्करपलाशे' पद्मप