पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1046, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ४. ] दीपिकासहितम्. ९९९
नामादिस्थितिरेवात्र ब्रह्मणो हि विधीयते ।
लक्षकम् । तत्त्वप्रदीपोऽप्युभयोपलक्षकत्वाभिप्रायः । तथा चोपलक्ष
णापक्षे फलवाक्ये उभयोः प्रथमात्वेन द्वितीयात्वाभावेऽपि विधिवा
क्ये ब्रह्मपदानुवर्तनेनोभयोर्द्वितीयात्वं सम्पाद्य द्वितीयात्वत इत्येतत्प
रतया योजनीयमिति सिद्धयति । अनेन ‘वाचं ब्रह्म’ इत्यादिवाक्य
मपि गृहीतं भवति । शाखान्तरे प्रथमात्वादिति तत्त्वप्रदीपस्तु शाखा
न्तरीयविधिवाक्य इत्यर्थकः । ‘मनो हि ब्रह्म मन उपास्व’ (छा०
७ - ३ . ) इत्यत्रत्यश्रुतिवत् ‘नाम हि ब्रह्म, वाग्घि ब्रह्म’ इ
त्यपि शाखान्तरे पाठोऽस्तीति तदभिप्रायको वा भवतीति न तद्वि
रोधः । अन्ये तु—उपलक्षणां विना ‘प्रथमयोः पूर्वसवर्णः’ इत्य
त्रेव प्रथमात्वत इत्यस्य प्रथमा च द्वितीया च प्रथमे तयोः
भावः प्रथमात्वम् , तत इत्यर्थ इत्याहुः । एके तु — ‘मनो हि
ब्रह्म मन उपास्व’ इति पुनराख्यप्रतीकविषयवाक्ये मनो हि ब्र
ह्मेति मनोब्रह्मपदयोः प्रथमान्तत्वदर्शनात्तद्वाक्यबलेन ‘नाम हि ब्र
ह्म, वाग्घि ब्रह्म’ इत्यादिवाक्यानां सर्वत्रोहे क्रियमाणे नामादिप
दानां ब्रह्मपदस्य च सर्वत्र प्रथमान्तत्वमस्तीति भावेन ‘नामादि
प्राणपर्यन्तमुभयोः प्रथमात्वतः’ इत्युक्तम् । एवमेव शाखान्तपाठोऽप्य
स्तीति सम्प्रदायविद इत्याहुः । प्रथमात्वत इत्यनन्तरं निमित्तादिति शे
षः । उभयोरैक्यदृष्टिरिति । अभेदोपास्तिरित्यर्थः । अत्र कर्तव्यतयो
च्यत इति शेषः । भ्रान्तिरित्यस्य भविष्यतीत्यनेनान्वयः । सामानाधि
करण्यबलेन तथा भ्रान्तिसम्भवादिति भावः । भ्रान्तौ मूलकारणमा
ह—‘अबुधानां’ अज्ञानामिति । ननु कस्मादियं भ्रान्तिरबुधानां क
ल्प्यते, बुधानामेवं प्रमैव किं न स्यादित्यत आह—नामादीति । नामा
दौ स्थितिरवस्थानं ‘अत्र’ ‘नामब्रह्म’ इत्यादिवाक्येषु ‘ब्रह्मणो’ ‘धि
ष्णोः ‘हि’ यतः ‘विधीयते’ अभिधीयते । नामेति प्रथमाया वाचमि
ति प्राणमिति द्वितीयायाश्च तर्हि का गतिः इत्यत आह—सर्वार्थेति ।
प्रथमेति द्वितीयाया अप्युपलक्षकम् । तथा च यस्मात्प्रथमा ‘सर्वार्था’
सर्वविभक्त्यर्थका तथा द्वितीया प्रथमा व्यतिरिक्तसर्वार्था ‘ततः’ त
स्मात् ‘सप्तम्यर्था’ सप्तमीविभक्त्यर्था अधिकरणत्वार्थका मतेति यो