पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1026, कुल 1267 में से
संदर्भ में पढ़ें[ मधि - ८, सू - ४७. ] दीपिकासहितम्. ९७९
'कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिका-
न्विदधत्' इत्युक्त्वा 'न च पुनरावर्तते न च पुनरा-
वर्तते' ( छा. ८-१५-१. ) इति गृहिणोपसंहारः क्रिय-
कपूर्वपक्षमाह — कुटुम्ब इति। कुटुम्ब इत्यतः प्राक् तत्रेति, उक्तेत्यतः
प्राक् मोक्षमिति चोपस्कर्तव्यम्। गृहिणेत्यावर्तते। षष्ठ्यर्थे तृतीया।
उपसंहार उपनिषत्समापनम्। तथा चेत्थं योजना — गृहस्थस्यैव मु-
क्तावुत्तमत्वं, कुतो ? यस्मात् 'तत्र' छन्दोगोपनिषदि 'आचार्यकुला-
द्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शु-
चौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि
प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्
यावदायुषं ब्रह्मलोकमभिसम्पद्यते' इति 'गृहिणा' गृहिणः गृहस्थस्यैव
मोक्षमुक्त्वा 'न च पुनरावर्तते' इति 'गृहिणोपसंहारः' तद्विषयकोप-
संहारः क्रियते तस्मादिति। न ह्याधिक्याभावे सर्वेषां मोक्षे समाने वि-
शिष्योक्तिर्युक्तेति भावः। उपसंहारपदप्रयोगेनास्य वाक्यस्याधिक्ये
तात्पर्यं सिद्धमिति ज्ञापितम्। उपसंहारस्य तात्पर्यनिर्णायकत्वात्।
श्रुत्यर्थस्तु — 'यथाविधानं' विधिमनतिक्रम्य 'आचार्यकुलात्' वंशा-
त् वेदमधीत्य 'यथाविधानं' सेवारूपं कर्म 'अतिशेषेण' अशेषेण
'अभिसमावृत्य' कृत्वा 'कुटुम्बे' गृहस्थाश्रमे वर्तमानः शुचौ देशे स्थि-
त्वा 'स्वाध्यायं' वेदमधीयानो 'धार्मिकान्' धर्मसम्बन्धिनो व्यापा-
रान् 'विदधत्' कुर्वन् तादृशजनान् पुत्रादीन् विशेषेण धारयन्निति
वा 'आत्मनि' परमात्मनीन्द्रियाणि 'सम्प्रतिष्ठाप्य' नियम्य 'तीर्थे-
भ्यो' यज्ञेभ्यः 'अन्यत्र' तान्बिना सर्वाणि भूतान्यहिंसन् यावदायुषं
स्वात्मानमेवं प्रवर्तयन् परमात्मानं दृष्ट्वाऽथ परब्रह्मलोकं 'अभिस-
म्पद्यते' प्राप्नोति। स्वर्गं प्राप्त इवायं पुनरावर्तते किं? नेत्याह — न चे-
ति। चोऽवधारणे। कदाचिदपि केनापि निमित्तेन नैवावर्त्तत इति। शु-
चौ कुटुम्बीति कचित् पाठः तत्त्वप्रदीपविरुद्धः। पूर्वपक्षं प्रतिषेधति —
न च वाच्यमिति। कुतो नेत्यतस्तत्र पूर्वपक्षहेतोरन्यथासिद्धयुक्ति-
परं कृत्स्नभावादिति सूत्रांशं हेतुत्वेन व्याचष्टे — यत इति। कृत्स्नगृह-
स्थानिति हेतुगर्भम्। कृत्स्नाः सम्पूर्णाः गृहस्थधर्मा येषां ते तथोक्ताः।
अस्य विवरणं — देवानिति। अनेन कृत्स्नो भावो गृहस्थधर्मो यस्य दे-
ववर्गस्य कृत्स्नस्य गृहस्थधर्मस्य भावो यस्मिन्निति वा स तथोक्त इ-