पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1019, कुल 1267 में से
संदर्भ में पढ़ें९७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
देवर्षिगन्धर्वादिपदेभ्योऽन्यत्र शुभविषय आकांक्षा
यामनाकांक्षायां च न पतनम् ।
(९) देवर्षिगन्धर्वाणां पदाकांक्षी पतेद्ध्रुवम् ।
अन्यत्र शुभमाकांक्षन् पतेदविरोधतः ॥ इति स्मृतेः ॥
(१०) नानात्वमेव कामानां नाकामः क्व च दृश्यते ।
ख्यानं—देवर्षीत्यादि । आदिपदात् प्रजापत्यादि गृह्यते । पदशब्दः स
र्वत्र सम्बध्यते । बहिरित्यस्यार्थः—अन्यत्रेति । तद्विवृणोति-शुभविषय
इति । ज्ञानभक्त्यादिरूपशुभधर्मविषय इत्यर्थः । विषय इत्यनन्तरं वि
शेषार्थकस्तुशब्दः संयोज्यः । उभयथेत्येतद्व्याचष्टे—आकांक्षायामि
ति । ननु
विज्ञानभक्त्यादिकमप्यतीव न साधनं कामबहिष्कृतं चेत् ।
अकामितोऽवाग्गतिमेव दद्यात् ॥
इति भारततात्पर्यनिर्णये ज्ञानभक्त्यादेरनाकांक्षायामनर्थोक्त्या आकां
क्ष्यत्वविधानादनाकांक्षायां पतनाभावोक्तिः कथमिति चेन्न, नियमाभा
वे तात्पर्यात् । उक्तवचनस्य सार्वकालिकानांक्षाविषयत्वात् । शुभ
शब्देन ज्ञानसाधनैश्वर्यादि गृह्यते । तदाकांक्षायां अनाकांक्षायां च न
पतनमित्यर्थः । ज्ञानं प्रत्यैश्वर्यादेरनियतसाधनत्वादिति भावः । न पत
नमिति सूत्रे शेषोक्तिः ॥
(९) कुतो न पतनमित्यतः प्राप्तं स्मृतेरिति हेत्वंशं व्याचष्टे—दे
वर्षीति । पदेष्वाकांक्षा यस्येति वा पदान्याकांक्षन्तीति वा विग्रहः ।
नित्यसापेक्षत्वात्पदाकांक्षी इति समासः । अन्यत्रेत्यतः प्राक् एतेभ्य इ
त्युपस्कार्यम् । ‘अन्यत्र’ अन्यत् ‘शुभं’ ज्ञानादि तत्साधनैश्वर्यादिकं
च । कुतो न पतेदित्यत आह—अविरोधत इति । ज्ञानादिकामस्य श्रु
त्याद्यविरुद्धत्वादित्यर्थः ॥
(१०) ननु—विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥
इति मोक्षाङ्गत्वेन सर्वकामप्रहाणविधानात् कथं शुभकामे पतनाभा
व इत्याशङ्कोत्तरत्वेनाचारादित्यंशं स्मृतिपरतया व्याचष्टे—नानात्व
मिति ॥ स्यादित्यतः परमप्येवशब्दस्य तेनेत्यतः परं चशब्दस्यान्वयः।
तथा च कामयमानः पुमान् ‘अविरुद्धकामः’ अनिषिद्धेच्छावान् स्या
देवेति प्रतिज्ञा । न चाकामत्ववचनविरोधः, यतः पुमान् श्रुत्यविरुद्धा