सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1014, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1014

[ अधि - ६. सू - ४१. ] दीपिकासहितम्. ९६७
कांक्ष्यं, किमु परस्येति सूचयितुमपिशब्दः । चशब्द
स्तु ज्ञानार्थिनां पूर्वोक्तादित्थंभावान्तरसूचकः।
( २ ) अयोग्यमारोढुं प्रयतन् प्रपतन् हि दृश्यते । एवमयो
ग्यस्य परमात्मैश्वर्यस्य ब्रह्मादिपदस्य चाकांक्षायां
पतनमनुमीयते ।
धिकारिकमित्यनेन तद्योगादित्युक्ताकांक्षान्वये सति ब्रह्मादिपदाना
कांक्षैवोच्यते । अतः कथं न परमात्मैश्वर्यादिकमाकांक्ष्यमिति भण्यते ।
सूत्रे मुखतस्तदुक्तस्य ब्रह्मादिपदस्यापिपदेन ग्रहणं अपिपदसूचित
स्य मुखतो ग्रहणं चायुक्तमित्यत आह—ब्रह्मादीनामिति । पदमिति
शेषः । ‘नाकांक्ष्यं’ नाकांक्षार्हं रुद्रादिपद्योग्यैः । ‘परस्य’ विष्णोः।
ऐश्वर्यमित्यनुवर्तते । ब्रह्मादीनामित्यनेन उत्तमाधिकारिणां ब्रह्मादिदे
वानां यस्य यस्मिन्नधिकारः श्रुतिस्मृतिप्रसिद्धः तत्पदमाधिकारिक
मित्याधिकारिकपदं व्याख्यातं भवति । कैमुत्यसूचकतया चाप्याधिका
रिकमपीत्यपिपदं व्याचष्टे-ब्रह्मादीनामपीति । तथा च कैमुत्ये आक्षेप्या
क्षेपकभावापन्नयोरुभयोरप्यापिपदाधिकारिकपदगृहीतत्वान्नोत्सूत्रत्वं
भाष्यस्य अपिपदेन सूचितस्यापि परमात्मैश्वर्यस्य प्राधान्यान्मुखतो
ग्रहणं च युक्तमिति भावः । नन्वेतत्प्रतिपादनं न पादसङ्गतमित्याशङ्का
निरासकतया सौत्रं चशब्दं व्याचष्टे—चशब्दस्त्विति । पूर्वोक्तादिति।
‘ऊर्ध्वरेतस्सु च’ इत्युक्तादित्यर्थः । समुदायेकवचनमेतत् । इत्थं
भावान्तरेति । इत्थंभाव इतिकर्तव्यता । अन्य इत्थंभाव इत्थंभावान्त
रम् । तथा च ज्ञानार्थिनामपेक्षितः पूर्वोक्तेभ्यो ब्रह्मचर्यादिभ्योऽन्यो
य इत्थंभावः परब्रह्मणो देवानां चैश्वर्याद्याकांक्षाकरणरूपस्तत्सूच
क इत्यर्थः ॥
( २ ) ननु भगवदैश्वर्याद्याकांक्षाऽयोगः कुतः प्रमाणादवसीयत इ
त्यतः प्रवृत्तं—पतनानुमानादित्यंशं व्याचष्टे—अयोग्यमिति ॥ वृक्षादि
कमिति शेषः । ‘प्रयतन्’ प्रयत्नं कुर्वन् ‘प्रपतन्’ पतनक्रियावान् हि
दृश्यते लोके । अनेन दृष्टान्तभूते अयोग्यारोहप्रयत्नवति जने हेतुसा
ध्ये दर्शिते । दार्ष्टान्तिकमाह—एवमयोग्यस्येति । सूत्रे मुखतः पूर्वगृ
हीतस्यापि ब्रह्मादिपदस्याप्राधान्यात् पश्चान्निर्देशः । ‘आकांक्षायां’
प्रयत्नविशेषरूपायां कृतायामिति शेषः । अनेन पक्षे हेतुसत्त्वमुपपादि
तम् । ‘अनुमीयते’ आकांक्षावत इति शेषः । अयोग्यस्येति वचनात्