सामग्री पर जाएँ
सर्वकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 55, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 55

तृतीयोऽङ्कः । २३
चक्राह्नोऽहमिव स्थितः सहचरीं ध्यायन्नलिन्यास्तटे
संजाता सहसा ममेव भुवनस्याप्यन्धकारा दिशः ॥ १० ॥
( इति निष्क्रान्ताः सर्वे । )
इति द्वितीयोऽङ्कः ।
तृतीयोऽङ्कः ।
( ततः प्रविशति मनोरमा । )
मनोरमा—आज्ञाप्तास्मि देव्या वासवदत्तया हञ्जे मनोरमे यः स
साङ्कृत्यायन्यार्यपुत्रस्य मम च वृत्तान्तो नाटकोपनिबद्धस्तस्य नर्तित-
व्यशेषमद्य युष्माभिः कौमुदीमहोत्सवे नर्तितव्यमिति । ह्यः खल्वारण्य-
कया प्रियसख्या शून्यहृदययान्यथैव नर्तितम् । अद्य पुनर्वासवदत्ताभूमि-
कया तया यदि तथा क्रियेत ततोऽवश्यं देवी कुप्यति । तत्कुत्र तावत्तां
प्रेक्ष्योपालप्स्ये । ( विलोक्य । ) एषारण्याकात्मनैव किमपि किमपि मन्त्र-
य