प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 53, कुल 184 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । २१
चेटी—आयासिता खल्वारण्यिका दुष्टमधुकरैः । तद्यावदुपसृत्य
समाश्वासयामि । आरण्यके मो बिभिहि । एषोपगतास्मि । ( साआ-
सिदा क्खु आरणिआ दुट्ठमहुअरेहि । ता जाव उवसप्पिअ समस्सासेमि । आरणिए
मा भआहि । एसा उवअदम्हि । )
विदूषकः—भोः अपसरापसर । एषा खल्विन्दीवरिकागता । ऐतं
वृत्तान्तं प्रेक्ष्य देव्यै निवेदयिष्यति । ( अङ्गुल्या निर्दिश्य ।) तदिदमेव
कदलीगृहं प्रविश्य मुहूर्त्तं तिष्ठावः । ( भो ओसर ओसर । एसा क्खु इन्दी-
वरिआ आगदा । एदं उत्तन्तं पेक्खिअ देवीए णिवेदिस्सदि । ता इमं एव्व कदलीघरं
पविसिअ मुहुत्तं चिट्ठम्ह । )
( उभौ तथा कुरुतः । )
चेटी—( उपसृत्य कपोलौ स्पृशन्ती ।) हञ्जे आरण्यिके । कमलसदृ-
शस्य तव वदनस्यायं दोषो यन्मधुकरा एवमपराध्यन्ति । (हस्ते गृहीत्वा ।)
तदेहि गच्छावः । परिणतो दिवसः । ( हञ्जे आरणिए कमलसरिसस्स तुह वअ-
णस्स अअं दोसो जं महुअरा एवं अवराहन्ति । ता एहि गच्छम्ह । परिणदो दिअहो । )
( गमने नाटयतः । )
आर०—( कदलीगृहाभिमुखमवलोक्य ।) हञ्जे इन्दीवरिके अति-
शिशिरतया सल्लिटस्योरुस्तैम्भ इव समुत्पन्नः । तच्छनैः शनैर्गच्छावः ।
( हञ्जे इन्दीवरिए अदिसिसिरदाए सल्लिस्स ऊरुत्थम्भो विअ समुप्पण्णो । ता सणिअं
सणिअं गच्छम्ह । )
चेटी—तथा । ( तह । )
( इति निष्क्रान्ते । )
विदूषक—भोः एहि निष्कामावः । तां गृहीत्वैषा दास्याः सुतेन्दीव-
रिका गताँ । ( भो एहि णिक्कमाम्ह । तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा । )
राजा—( निःश्वस्य ।) कथं गता । सखे वसन्तक । न खल्वविघ्न-
मभिरुषितमन्वर्थैः प्राप्यन्ते । ( विलोक्य ।) सखे पश्य पश्य ।
कथं गता उत्कण्ठयिष्य । शकुन्तलासु प्रियंवदास्वैतद्द्यम् । अभिगम्याभिनन्दितमि०—एवं
शकुन्तलायां—अहो विस्मयः प्रार्थितार्थसिद्धयः । इति ।
१ मा भेषीः मा भेषीः । समाश्वासयिष्ये (मा अह्नि एसा अभाइद्वि)- २ नेदंने (ता एई).
३ कण्ठः. ४ अभ्यन्तरं—तदा कुरुतः । इत्यधिकं कूटपुस्तकयोः.