प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 50, कुल 184 में से
संदर्भ में पढ़ें१८ प्रियदर्शिकाया
आर०—( सविषादम् । ) किं देव्या मन्त्रितम् । ( देवाए मन्त्रिदं । )
चेटी—एतत् । तदैषाहं महाराजेन भणिता यथा—यदैषा विन्ध्य-
केतुदुहिता वरयोग्या भविष्यति तदाहं स्मारयितव्य इति । तत्साम्प्रतं
महाराजं स्मारयामि येनास्या वरचिन्तोपर्याकुलो भविष्यति । ( एदं ।
तदा एसा अ० महाराएण भणिदा जह जदा एसा विज्झकेदुदुहिदा वरजोग्गा भवि-
स्सदि तदा अहँ सुमराइदव्वोत्ति । ता संपदं महाराअं सुमरावेमि जेण से वरचिन्ता-
पवाउरो भविस्सदि । )
राजा—( सदर्पम् । ) इयं सा विन्ध्यकेतोर्दुहिता । ( सानुतापम् । )
चिरं मुषिता स्मो वयम् । वयस्य निर्दोषदर्शना कन्यका खल्वियम् ।
विश्रब्धमिदानीं पश्याम ।
आर०—( सरोषं कर्णौ विधाय । ) तद्गच्छ त्वम् । न मम त्वयासंब-
द्धप्रलापिन्या प्रयोजनम् । ( ता गच्छ तुमं । ण मे तुए असंबद्धपलाविणीए
पओअणं । )
( नेपथ्यस्था च पुष्पावचयं नाटयति । )
राजा—अहो सुतरां प्रकटीकृतमाभिजात्यं भीरतया । वयस्य
धन्यः खल्वसौ य एतदङ्गस्पर्शसुखभाजनं भविष्यति ।
( आरण्यिका कमलावचयं नाटयति । )
विदूषकः—भो वयस्य पश्य पश्य । आश्चर्यमाश्चर्यम् । एषा
सलिलचलत्करपल्लवप्रभावितृतेनोपहसितशोभं करोति कमलवनमवचि-
न्वती । ( भो वयस्स पेक्ख पेक्ख । अच्चरिअं अच्चरिअं । एसा सलिलचलन्तकर-
पल्लवप्पहावित्थिदेण ओहासिअसोहं करेदि कमलवणं अवचिणन्ती । )
राजा—वयस्य सत्यमेवैतत् । पश्य ।
रोषादित्यर्थः । सानुतापमनुतापेन पश्चात्तापेन सहितं यथा तथा । विश्रब्धं यथा तथा ।
असम्बद्धं संदर्भरहितमनर्थकमिति यावत् । यदा वरयोग्या भविष्यतीत्यादि प्रलपतीति
तथा तथा । एषा नर्मोक्तिः । एवं शाकुन्तलेऽपि 'इमामसम्बद्धप्रलापिनीं प्रियंवदामाय्यायै
गौतम्यै निवेदयिष्यामी'ति शकुन्तलावचनम् । एषा कमलानि अवचिन्वन्ती सलिले
जलं चलन्ती । करपल्लवस्य प्रभा तस्या विस्तृतेन विस्तारेण प्रसरणेनेत्यर्थः ।
१ तदाह म० । यथा—यैषा अ० द० । २ तदा ब० ( ना० ए० ) ३ चिरमु० ४ एत-
न्नास्ति क्वचित् ५ दिग्रुटितेन ( निग्रुटितेन ) ६ ०मज्जन्त ७ स्वल्प