प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 37, कुल 184 में से
संदर्भ में पढ़ेंकिं तत्रैव गच्छामि । (निःश्वास्यात्मनोऽवस्थां पश्यन् ।) किमिदं हि राजपुत्र्या
विना तत्र गत्वा कथयिष्यामि । अये । कथितं चाद्य मम विन्ध्यकेतुना—
“मा भैषीः । जीवति सत्रभवान्महाराजो दृढवर्मा गाढैःप्रहारैर्जर्जरीकृतो
बद्धस्तिष्ठति ।” इति । तदधुना स्वामिनमेव गत्वा पादपरिचर्यया जीवित-
शेषमात्मनः सफलयिष्यामि । (परिक्रम्योर्ध्वमवलोक्य।) अहो अतिदारुणता
शरदातपस्य । यदेवमनेकदुःखसंतापितेनापि मया तीक्ष्णोऽवगम्यते ।
घनबन्धनमुक्तोऽयं कन्याग्रहणात्परं तुलां प्राप्य ।
रविरधिगतस्वधामा प्रतपति खलु वत्सराज इव ॥ ५ ॥
(इति निष्क्रान्तः ।)
इति विष्कम्भकः ।
(ततः प्रविशति राजा विदूषकश्च ।)
राजा—
भृत्यानामविकारिता परिगता दृष्टा मतिर्मन्त्रिणां
मित्राण्यप्युपलक्षितानि विदितः पौरानुरागोऽधिकम् ।
निर्व्यूढा रणसाहसव्यसनिता स्त्रीरत्नमासादितं
निर्व्याजादिव धर्मतः किमिव न प्राप्तं मया बन्धनात् ॥ ६ ॥
नगरीम् । कुशाम्बेन राज्ञा निर्मिता कौशाम्बी । जर्जरीकृतं विह्वलतामापादितम् । घन-
बन्धनेति । घनानां मेघानां बन्धनमुपरोधस्तस्मान्मुक्तः पक्षे घनं दृढं यत्प्रद्योतकृतं
बन्धनं तस्मान्मुक्तः कन्यायास्तदाख्याराशेः ग्रहणान्प्रवेशात्परमनन्तरं तुलां तुलाराशिं
प्राप्य । पक्षे कन्यायाः प्रद्योतनयाया वासवदत्ताया ग्रहणात्परपूर्व तुलामुत्कर्षं
प्राप्य । अयं रविः । अधिगतं स्वधाम स्वदेशं कौशाम्बीति यावत् । स वत्सराज
इव प्रतपति नितरां दहति । पक्षे प्रतापवान्भवति । श्लिष्टोपमा । पथ्यार्यावृत्तम् ॥ ५ ॥
विष्कम्भकः । वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तुविष्कम्भो
मध्यपात्रप्रयोजितः । एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ॥ इति लक्षणं दश-
रूपके । शुद्धः केवलमध्यमैः । पात्रैः प्रयोगो भावेत्स्यात्संकीर्णो नीचमध्यमै ॥
आदौ विष्कम्भकं कुर्यान्नाटकेषु महाकविः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ।
इत्यान्यत्र च । भृत्यानामिति । भृत्यानामविकारिता विकृत्यभावः । स्वामि-
भक्तिरिति यावत् । परिगता ज्ञाता । मन्त्रिणां मतिः प्रज्ञा दृष्टा । मित्राणि उपलक्षितानि
यथार्थतया ज्ञातानि । पौराणां मयि अनुरागोऽपि अधिकं यथा तथा विदितः । रणे साहसं
तत्र व्यसनितासोत्कण्ठेव्यूढा अनुष्ठिता । स्त्रीरत्नं वासवदत्तारूपमासादितम् । निर्व्या-
जात्रिष्कपटत्वेन फलाभिसन्धिरहितेन वा अनुष्ठितात् धर्मत इव बन्धनान्मया किमिव
न प्राप्तम् । सर्वमपि प्राप्तमित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ लक्षणमुक्तम् ॥ ६ ॥
१ अहह राज०; किं कृप०. २ परंतु गाढ०. ३-व्यंग्या. ४ इतजैकश्चन्द. ५ परा.