सामग्री पर जाएँ
सर्वकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 35, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 35

प्रथमोऽङ्कः । ३
नाटिका कृतेत्यस्माभिः श्रोत्रपरंपरया श्रुतम्¹ । न तु प्रयोगतो दृष्टा² ।
तत्तस्यैव राज्ञः सर्वजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या³
यथावत्प्रयोगेण त्वया नाटयितव्येति । तद्यावन्नेपथ्यरचनां कृत्वा यथा-
भिलषितं संपादयामि । ( परितोऽवलोक्य । ) आवर्जितानि सामाजिकमनां-⁴
सीति मे निश्चयः⁵ । कुतः ।
श्रीहर्षो निपुणः कविः परिषद्प्येषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन-
र्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ ३ ॥
( नेपथ्याभिमुखमवलोक्य । ) अये । कथं प्रस्तावनामभ्युद्यते मयि विदितास्मद्-
भित्रायोऽङ्गाधिपतेर्दृढव