सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

षष्ठः सर्गः . १६३
ज्येष्ठानुरागाख्यनिधानकोशे
मुद्रानिवेशो निहितो हृदीव ॥
ततः कौसल्याया हृदि सू(1.1)क्ष्मं मेघनादपातितशक्तिव्रणचिह्नं² लक्षि-
तम् . अतस्संभाव्यते श्रीरामविष(1.2)ये स्नेहनामनिधिकोशे न्यस्तो मुद्रा-
निवेश इव ॥ 56.
किमेतदित्याकुलया स्पृशन्त्या
पृष्टो(1.3)पि मात्रा न स किंचिदूचे .
द्रोणाचलेन्द्रोद्धरणोद्धुरोपि
नेमे च लज्जातिभरात्कपीन्द्रः ॥(1.4)
व्रणं स्पृशन्त्या व्याकुलया मात्रा किमेतदिति पृष्टोपि लक्ष्मणो न
किंचिदुक्तवान् व्रण(1.5)रोॅपणौषध्यानयनार्थं द्रोणाख्यपर्वतोद्धरणेनोद्धुरोपि
हनुमांल्लॅज्जाभरादनमत्(1.6) मयि सत्यनेनायोधीति लज्जाभरः ॥ 57.
यथाभवत्तस्य च शक्तिपातो
धन्वन्तरिर्वायुसु(1.7)तो यथा च .
वितत्य रामेण तथा समस्तं
मातुः पुरस्तात्प्रतिपाद्यते स्म ॥
लक्ष्मणस्य श(1.8)क्तिपातो यथाभूद्यथा च हनुमान्विशल्यीकरणे
धॅन्वन्तरीरासित्तथा स प्रकारस्स(1.9)मस्तं विस्तरेण मातुरग्रे रामेण
प्रतिपादितः ॥ 58.
स्तुतिर्जगत्प्राणसुतस्य के(1.10)यं
जागर्ति यत्त्राणयितुं जगन्ति .
हरिस्तथा भाति न कौस्तुभेन
यथामुना लक्ष्मण(1.11) लक्ष्मणा त्वम् ॥
1 Ms. सूक्ष्मं लक्ष्मणस्य crossed after ˚हृ. 2 Ms. ˚ह्नो˚. 3 Ms. ˚रपयो˚.
4 Ms. ˚माल्ल˚ 5 Ms. धान्व˚. 6 Ms. ˚न्वरि˚. 7 Ms. ˚तम्. 8 Ms. ˚गन्ति य˚.

१६४ पृथ्वोराजविजयमहाकाव्यम्
जगन्ति प्राणयतीति जगत्प्राणो वायुस्तस्य सुतो हनुमांस्तस्ये(l.12)यं
का स्तुतिः यज्जगज्जीवयितुं हनुमाञ्जगार्ति . एतेन न केवलं हनुमता
ल(l.13)क्ष्मणः प्राणितो यावज्जगन्त्यपि लक्ष्मणवत्त्राणयतीति प्रतिपादितम्
लँक्ष्मणे प्राणिते रामस्यै......कार्याणा(l.14)............जीवनार्थं य-
............(l.15) 59.
Lines 16 to end of page missing
मंनुजस्य सेवा-
मनुस्मरन्वाक्यमिदं बभाषे ॥
लीलयात्तो मनुष्यभावो येन स देवो रामः(l.1) कौसल्योक्तमेव श्रुत्वा-
न्येन कर्तुमशक्यां लक्ष्मणस्य सेवां स्मरन्निदमवोचत् ॥ 60.
तिललम् ॥(l.2)
मातर्मुषा प्रार्थयसे त्वमेवं
भवादृशीनां नहि तंत्वमेतत् .
देवी भवानी किमु कात्ति(l.3)केय-
गाङ्गेययोः किञ्चिदवैति भेदम् ॥
हे मातस्त्वमेवं मृषा याचसे त्वादृशीना(l.4)मेतन्न युक्तं रामो मदीयो
लक्ष्मणोऽन्यदीय इति यतो गौरी कुमारहेरम्बयोर्भेदं न जा(l.5)नाति ॥ 61.
आशंसनीयं तु ममेदमस्ति
यथाग्रजं मामनुजस्सिषेवे .
तथाहमस्या(l.6)नुजतामुपेत्य
सेवाविधानात्कृतनिष्क्रयः स्याम् ॥
1 Ms. °ब्जगर्ति. 2 Ms. lc. on margin. 3 Restore देवः स लीलान्तमनुष्य-
भावो मात्रोदितं वाक्यमिदं निशम्य. । अनन्यकार्यामनु° (?) 4 Comma युक्तं.

१६६ पृथ्वीराजविजयमहाकाव्यम्.
अनेन भोगेन मम शोभा नास्ति अतोऽहमीदृशं भोगित्वं सर्पत्वं(l.1)
भोगभाक्त्वं च प्राप्नुयाम् येन त्वत्पादपवित्रां भूमिं स्प्रष्टुं सहस्रं मूर्ध्नां शिरसां
फणानां(l.2) च यस्य स स्यामित्यादरद्योतनम्. शेषो भवेयमित्यर्थः ॥ 66.
इत्थं महीनाथ कथानवद्या
पु(l.3)राभवद्या पुरतो जनन्याः .
स्नेहानुबन्धादपि दाशरथ्योः
पफाल तस्यां प्रथमस्य वाक्यम् ॥(l.4)
हे राजन्मातुरग्रे या कथा पूर्वमभूत्तस्यां कथायां प्रथमस्य रामस्य
वाक्यं फलितम् ॥(l.5) 67.
तथा हि रामत्वमुपेयुषः प्रा-
ज्येष्ठस्य निर्वाहिनसाहचर्यः .
कृष्णः कनिष्ठस्स विवेक(l.6)निष्ठ-
स्तथागतत्वं प्रतिपन्न एव ॥
तथा हीत्यादि प्रथमवागुत्पत्तिपरम् हलधरभावं प्राप्त(l.7)स्य ज्येष्ठस्य
भ्रातुर्लक्ष्मणावतारस्य संपादितसाहायकः कनिष्ठः कृष्णो बुद्धत्वं प्राप्तः ॥
(l.8) 68.
अपत्यरत्नद्वयसंनिधान-
निधानभूः कोसलराजपुत्री .
यथा भवित्री विदितं तथा(l.9) मे
बद्धावधानः क्षणमस्तु देवः ॥
कौसल्या द्वौ पुत्रौ यथा सूते तथा मम विदितमतो (l.10)राजा क्षणं
सावधानो भवतु ॥ 69.
चक्षुस्त्रयाणां जगतामवामं
वामं त्रयाणामपि का(l.11)रणानाम् .
1 Ms. °न्थां. 2 Ms. °फली (!) 3 Ms. पत्रौ.

षष्ठः सर्गः . १६७
योयं जयत्यत्रिमुनेरिवाब्धे-
रयोनिजं पुण्यमपत्यमिन्दुः ॥
यस्त्रयाणां (l. 12) जगतामवासंमनुकूलं चक्षुस्तथा ब्रह्मादीनां कार-
णानां वामं चक्षुः तथात्रिमु(l. 13)नेस्समुद्रस्य चायोनिजातमपत्यं चन्द्रोयं
जयति ॥ 70.
मयाष्टधा लोकहिताय चक्रे (l. 14)
कृता तनुष्षोडशधा त्वयैव .
इतीव यो मूर्धनि धारणीयः
परिश्रमज्ञेन महेश्वरेण ॥(l. 15)
मया लोकानां हितार्थं प्रकृतिरष्टधा कृता अनेन चन्द्रेण पुनरेका ....
.........(l. 16) 71.
[Lines 17 to end of page missing] (**47)
पाणौ¹ बिभर्त्ति हृदयेमृतकलशान्तर्बिभर्त्ति² दृग्गोचरे वामनेत्रे³ बिभर्त्ति
चन्द्रं कर्पूरमिव (l. 1) . मृत्युञ्जयस्य कर्पूरोद्धूलितस्यागमेष्वभिधानात् . अन्या
लोकोत्तरा प्रादेशिकी न प्रदेशे ए(l. 2)कद्देशे भवा भूषास्य चन्द्रस्य⁴ भूषणत्वं
भवति किंवाद्वत्नवत् शोभामात्रं समानो धर्मः(l. 3)चन्द्रं⁵मिवेति वान्त्रयः ॥ 72.
लोकार्थमष्टावपि मूर्त्तयोमू-
रतिमकृंष्टा⁶ तु य एष मूर्त्तिः .(l. 4)
कामं च कालं च हि सर्वकालं
यतोर्नुगृह्णात्यविरोधमीशः⁷ ॥
हरस्याष्टौ मूर्तयो भूम्या(l. 5)दयो लोकहितार्था भवन्ति एष यश्चन्द्रा
मूर्त्तिर्भवति सा लोकहितार्थमतिप्रकृष्टा भव(l. 6)ति अतो हेतोरीशः कामं
1 Ms. °वापं. 2 Ms. °न्तर्विं. 3 Ms. °व°. 4 Ms. भूषा crossed after 'स्य. 5 Ms. °न्द°. 6 Ms. °ष्ठा. 7 Ms. सतोव°.

१६८ पृथ्वीराजविजयमहाकाव्यम्.
कालं च विरोधत्यागेनानुगृह्णाति . चन्द्रस्य कामोद्दीपकत्वात् काल(l.7)स्य
तिथिमुखेन व्यवस्थितस्य चन्द्रेणैव संपादितत्वात् ॥ ७३.
अखण्डितेच्छैरपि राजदारैः
प्रि(l.8)यान्तराश्लेषसुखं न लभ्यम् .
इतीव धन्याः प्रति दक्षकन्याः
प्राप्नोति नित्यं नवरूपतां यः ॥(l.9)
राजानो नृपा राजा चन्द्रश्च तत्प्रियाभिरैश्वर्येणाखण्डितेच्छाभिरपि
नवनवदयितालि(l.10)ङ्गनसुखं न लभ्यते इत्यत इव भाग्यवतीस्ताराः प्रति
यो नित्यं नवत्वं गृह्णाति कलानां च(l.11)यादपचयाच्चेति भावः ॥ ७४.
पक्षस्थिते दैत्यगुरौ विवादं
कृत्वा समं वाक्पतिनान्वयार्थे .(l.12)
य एव लेभे विजयप्रशस्तिं
श्रेयान्हि राज्ञः कविपक्षपातः ॥
चन्द्रस्य पक्षे स्थिते शुक्रे(l.13) सति बृहस्पतिना साकं पुत्रार्थे¹ विवादं
कृत्वा य एव चन्द्रो विजयकीर्त्तिं लब्धवान् जी(l.14)…………तः बृहस्पति-
चन्द्रयोर्विवादो जातः क्षेत्रिणो ममायं बुधः पुत्र इ(l.15)-· ७५.
[Lines 16 to end of page missing] (*)
प्रतिबिम्बिता भूर्यत्ततः कलङ्कः कलङ्क इति प्रवाहो जातः . कलङ्कः
कलङ्क इति द्विरुक्ति(l.1)र्वीप्साप्रतिपादनार्था ॥ ७६.
वव्रे बलादाङ्गिरसाङ्गनापि
यदेनमेषोपि कथङ्कल(l.2)ङ्कः .
विहाय देवी दमघोषसूनुं
न रुक्मिणी किं विधुमालिलिङ्ग ॥
¹ Ms. 'र्थेविं'.

षष्ठः सर्गः. १६६
आङ्गिरसो जीवः(l.3) तस्याङ्गना रोहिणी साप्येनं बलाद्यद्गत्रेचकमत
सोपि नास्य दोषः शिशुपालं त्य(l.4)क्ता रुक्मिणी विधुं विष्णुं किं नालि-
ङ्गत् ॥ 77.
तुषारगौरादपि जातमस्मा-
त्सुंत्रामरामा(l.5)श्रवणोचितेन .
इन्दीवरेणेव सुरस्रवन्ती-
हृदान्महानीलरुचा बुधेन ॥
शच्या श्रोतृसु(l.6)चितेन . सुरूपत्वादिति भावः . बुधेन महानीलका-
न्तिना यतो हिमशुभ्रादपि जातम्(l.7) यथा शचीकर्णपूरत्वोचितेन नीलो-
त्पलेन गङ्गाप्रवाहात् ॥ 78.
अङ्कस्पृशमित्यादि(l.8) बुधस्तुतिपरमनन्तरकुलकम् ॥
अङ्कस्पृशं यं परभागभङ्गी-
सौभाग्यहेतुं स्मरतेव(l.9) बालम् .
अद्यापि नीलोत्पलचारुनेत्रो
नोत्सृज्यते चन्द्रमसा कुरङ्गः ॥
बुधो नील इत्यतः(l.10) परभागभङ्गया सौभाग्यस्य हेतुमङ्कारूढं यं
बालं स्मरतेव चन्द्रेण मृगोद्याप्यङ्गान्न(l.11) त्यज्यते नीलोत्पलदृष्टिः ॥ 79.
सितेन्दुमुक्तामणिजीवहीर-
भौमार्क रक्तोपलगुम्फि(l.12)तो यः .
आकाशलक्ष्म्‍या इव कण्ठसूत्रे
सहार्कणा नीलमणित्वमेति ॥
सितेन्दू एव(l.13) मुक्तामणी जीव एव हीरो भौमार्कवेव रक्तोपलौ
1 Ms. °ज्ञी°. 2 Ms. °दशुभ्रा°. 3 Ms. °च्याश्रों°. 4 Ms. °शी°. 5 Ms. °स्प°.
6 Ms. ये.
२२

पद्मरागौ तेषु गुम्फितो यो बुध:(l.14)·······दलक्ष्म्याः कण्ठसूत्रे
इन्द्रनीलभावमेति ॥ ८०.
अल्पो महान्वां महसास्तु(l.15)
Lines 16 to end of page missing
—न्निकटे स्थित इत्यर्थः . पुत्रा पितुः पार्श्वे वसन्तीति तात्पर्यम् . अयं बुध-
श्चन्द्रसकाशाद्व्यवहितो(l.1) यदास्ते तत्तस्मादहं मन्ये इति शेषः . जीवाद्-
गुरोरुपजीव्यादधीत्यायं बुधो भूमिजे भौमे स्वकु(l.2)लजातराजोद्देशेन बुद्धिं
ददाति . शनिः पितुस्सूर्यस्य सकाशाद्व्युत्क्रमेण पार्श्वे वसतीति नी(l.3)त्यु-
ल्लङ्घनप्रकाशनम् बुधस्तु चन्द्रात्क्रमेणैव तिष्ठति किन्तु भौमेन व्यवहितः
तथाविधा(l.4) स्थितिः पुण्यार्थमेवास्य भवति . अयं हि गुरोर्नीतिमधीत्य
भौमस्य प्रतिपादयति भौमेन(l.5) पुत्रेण नीतिर्भुवो

षष्ठः सर्गः . १७१
वरुणश्शीतो रविरुष्ण इति विरोधिनावपि वरुणाकौँ दीक्षितावपि
यामुर्वशीं यद्दृष्ट(l.12)वन्तौ तत्ततो वरुणस्सन्तापमवहत् मित्रस्सूर्यो जाड्यं
जडत्वमवहत् ॥ 83.
साप्युर्वशी प्रा(l.13)प्य तमूर्व्वरीशं
तथा च नोजनम्वशंवदाभूत् .
अस्याश्शची पामरकामिनीव
यथा न सं(l.14)-------- ॥
पुरूरवसं प्राप्य साप्युर्वशी तथा कामातुराभूद्यथा पामरस्त्रीव(l.15)
...............दित्यर्थः ॥ 84.
बहुष्वैतीं---------(l.16), 85.
[Lines 17 to end of page missing] (*)
.........इन्द्रसमं पुत्रमिच्छतस्तस्य यैस्तपोभिर्हेतुभिः कुशिकस्य
गाधिनामेन्द्रस्स्वयमेव जातः ॥ 86.
धर्तुं धरित्रीं(l.1) नवमो बभूव
नगाधिराजस्स न गाधिराजः .
ऐन्द्रीषु यस्येष्टिषु शश्वदासी-
देकाश्रयस्त(l.2)र्पकंतर्प्यभावः ॥
स गाधिराजो भुवं वोढुं नवमकुलपर्वत आसीत् काँक्कासीदेवेत्यर्थः
यद्वा स गाधिराजो नासीत्किं तर्हि नवमो नगाधिराजः इन्द्रयागेषु यस्य
तँ(l.3)र्पकंतर्प्यत्वं चैकाश्रयमासीत् . स हि शक्रः तर्पकश्च स एव स एवे-
न्द्रयागे तर्पणीयः ॥(l.4) 87.
1 Ms. यामू°. 2 Restore °तेषु. 3. Ms. यै° to °भिः lc. on margin.
4 Ms. न written below आ°. 5-5 Ms. lc. on top margin. 6 Ms. तत°.

१७२ पृथ्वीराजविजयमहाकाव्यम्.
को वेद तद्गाधिसुवस्स तत्वं
दधत्पुरस्तादपि राजतत्वम् •
अपारतो यंस्तपसः प्रभावा-
त्सुव(l. 5)र्णतां भावनयोपनीतः ॥
तत्तस्माद्धेतोर्गाधिभुवो विश्वामित्रस्य माहात्म्यं को जानाति यत्पू(l. 6)र्वे
राजतत्वं क्षत्रियभावमपि दधत्तपंसोपारात्प्रभावाद्धेतोर्भावनया सुवर्णतां शो-
भन(l. 7)वर्णत्वं ब्राह्मणत्वं नीतः . क्षत्रियोपि हि विश्वामित्रस्तपोमाहात्म्या-
द्ब्राह्मणस्संपन्नः . अथ च(l. 8) यः पदार्थः पारदो न भवति राजतं रूप्यं
सुवर्णं करोतीत्यपि विरोधाभासकः ॥ 88.
निन्ये ह(l. 9)रिश्चन्द्रमधोगतिं य-
दुच्चैः पदं चागमयत्रिशङ्कुम् •
कोपप्रसादौ नृपगोचरौ त-
च्यक्त्वा(l. 10)पि यो राज्यमपेक्षते स्म ॥
विश्वामित्रो हरिश्चन्द्रं यदधः कृतवांस्त्रिशङ्कुं च यदुच्चैः पदं(l. 11) प्राप-
यत्तद्राज्यं त्यक्त्वापि कोपप्रसादावेवापेक्षते स्म नृपाणां गोचरौ राज्ञामेव कोप-
(l. 12)प्रसादावुपयोगिनौ अयं तु राज्यं त्यक्त्वापि निग्रहानुग्रहोद्यतोभूदित्यर्थः
उदारचे(l. 13)तसा तेन तयोरेव राज्यफलत्वगणनादिति भावः ॥ 89.
स चक्रवर्त्ती भरतोपि जज्ञे(l 14)
――――――न्दुगोत्रे .
राज्याभयं कर्तुमनेकवारं
पुलोमजा यस्य पुरे ययाचे ॥
स ह(l. 15)-
. 90,
Lines 16 to end of page missing
1 Ms. येतं . 2 Ms. °परी° . 3 Ms °तपं written above °त्सुवं.
4 Doublet of पारत, See l. 7. 5 Ms. °चरो.

षष्ठः सर्गः . १७३
'ख्यानकरं जघान .
इतीव यद्दोर्वनदृप्तदन्ती
रामेण रामो दमयांबभूवे ॥
मम पूर्वपुरु(l.1)षस्सहस्ररश्मिः तस्य मम गणनकरं कार्तवीर्यमयं हत-
वानित्यस्मादिव कार्तवीर्यभुज(l.2)वनमत्तगजः परशुरामश्रीरामेण दमितः .
मत्तश्च हस्ती दम्यते ॥ ९1.
द्वाभ्यां शताभ्यां स क(l.3)रैररौंसी-
त्पंचाशता च ध्रुवमेकमेकम् .
नैकोपि पादश्चलति स्म येन
धर्मस्य तस्मिन्परिरक्ष(l.4)ति क्ष्माम् ॥
पञ्चाशदधिकशतद्वयसंख्यैः करैस्सहस्रबाहुः कार्तवीर्यो धर्मस्यैकमेकं
पादं त(l.5)द्ध्रुवं रुद्धवान् यतस्तस्मिन्भुवं पालयति धर्मस्यैकोपि पादो
नाचलत् ॥ 92.
कलिर्जजागा(l.6)र चुरिक्रियायां
कृतस्य दत्ताभय एष राजा .
तेनास्य पृथ्वीवलयप्रसिद्धिं
प्राचुर्यमूहै(l.7) कलिचुर्युपाख्या ॥
कार्तवीर्यस्य कलिचुरिरिति नाम प्रसिद्धं तत्र कविरन्वर्थतामूहते(l.8).
चुर स्तेये इत्यस्य धातोः क्रिया चुरिक्रिया तस्यां हरणोर्थात्कृतयुगस्य क-
लिरुद्यतः . कार्त(l.9)वीर्यैः कृतस्य दत्ताभयः तेन ध्रुवं कलिचुरिसंज्ञा राज्ञो
भूमण्डले प्रसिद्धिमवहत् ॥(l.10) 93.
तदीयमेवाभरणायमानं
क्रमागतं नाम समुद्वहन्तः .
1 Read संख्या°. 2 Ms. °रौ°. 3 Ms. पादं lc. on margin. 4 Ms. प्रापुर्यं°.
5 Ms. तन्ना° written under दत्ता°. Is it तत्र दत्ताभयः ?

...Wait, what aboutकलिघंमकाले? Could it be कलिधर्मकालेwhere MS hasघंमor something? Wait, look at line 14:[Lines 18 to end of page missing] (*)Then:माण्याँबयास्स साहसिकस्तपस्विने...Wait, couldमाण्याँबयास्सbe...माण्यां नयास्स...? Wait, could the footnote be: 1 Ms. °थ°.Wait, where is1? Look at line 16: दत्वा(l.1) सर्वां भूमिं जेतुं प्रस्थितवान् ॥Look at(l.1)! That is (l. 1)of the next page/leaf of the manuscript! Wait, before(l.1)there isदत्वा(l.1): wait, is that (l.1)or(1.1)? In the image, the font for letter lis italicl: (l.11), (l.12), (l.13), (l.14), (l.15), (l.16), (l.17), (l.1), (l.2), (l.3). Wait, in दत्वा(l.1

षष्ठः सर्गः. १७५
स्तत्वं न जानामि यतोऽहं दैवज्ञस्तत्प्रतापस्तु दैवमप्य(1.4)तिवर्तते . यावान-
स्य प्रतापस्तावान्वाङ्मनसातिक्रान्त इत्यर्थः ॥ 98.
यत्कार्मुकारोपणमात्र(1.5)यत्न-
सापेक्षमाशाविजयं विजानन् .
स भाग्यसंपत्परिवार एव
बभ्राम सामन्तशिखाम(1.6)णिर्गाम् ॥
धनुष्कर्षणमात्रप्राप्यं दिग्विजयं जानन्स राजा भाग्यसम्पदेव परिवारो
यस्य(1.7). केवल इत्यर्थः . स चक्रवर्ती भुवं यदभ्रमत् ॥ 99.
विधास्यतस्साहसमानुचर्या-
च्छायामपि च्छे(1.8)तुमिवास्य रात्रौ .
विरोचने चुम्बति पश्चिमायां
पपात जातु त्रिपुरी पुरस्तात् ॥
रात्रौ साहसं(1.9) करिष्यतोस्य च्छायामप्यनुचरत्वाच्छेत्तुं वारयितुमिव
[L15

१७६ पृथ्वीराजविजयमहाकाव्यम्
क्षीणां क्षपाकान्तमशुद्धपक्षे '
दृष्ट्वां विसृष्टै(l.14)रिव सागरेण .
प्रदीपितॆजोवधदन्दशूकै-
रमूच्यत द्यौर्जलदैरकस्मात् ॥
कृष्णपक्षे क्षी(l.15)- 102.
Lines 16 to end of page missing
कम्पितुमारम्भमकरोत् ॥ 103.
आजनमनस्साहसँसादरत्वा-
त्स साहसस्यैव शुभं निमित्तम् .(l.1)
यथार्थनामा पिशुनं विदित्वा
घने घनं गर्जति नन्दंति स्म ॥
नित्यं साहसकरणात्सार्थकनामा स(l.2) राज्ञ तन्निमित्तं बाहुकम्पं '
साहसस्यैव सूचकं ज्ञात्वा घनं कृत्वा मेघे गर्जति सति साहसि(l.3)को
राजातुष्यत् ॥ 104.
ततो घनानां निचयाैनिशातै-
र्निःशेषतस्तारकधाम्नि शान्ते .
निशातनुत्वान्नि(l.4)शशामं नादं
निकाममायाविनमेष वीरः ॥
निबिडैर्मेघैस्तारकाणां धाम्नि स्थाने तेजसि(l.5) वा शान्ते निशावसा-
नादत्यर्थं विस्तीर्णं शब्दमेष वीरश्श्रुतवान् ॥ 105.
अथ ध्वनेस्संमुख(l.6)मस्य॑ गत्वा
भयानकेनेव रसेन पूर्णाम् .

  • 1 Ms. °ष्ट्या. 2 Is it °पते° ? 3 Ms. °हसाद°. 4 Ms. °तिनन्द° lc.
    on top margin. 5 Ms. बजति. 6 Ms. °शस्र नां°, 7 Ms. °मप्यं°,

षष्ठः सर्गः . १७७
श्मशानेनामानमसौ गभीरां
पुर्यांस्त्रिपुर्याः परिखां(l.7)मपश्यत् ॥
ततोस्य शब्दस्य संमुखं गत्वासौ भयानकेन रसेन पूर्णामिव त्रिपुरी-
नामनग(l.8)रीसम्बन्धिनीं श्मशानाख्यां परिखामपश्यत् ॥ * 106.
प्राणांन्नीति कुलकम् ॥
प्राणांन्निहो(l.9)त्रीकृतकालकार्म-
पुरत्रयाख्याहुतिपंचकस्य .
तृप्तिर्नृकीटेन मयापि का ते
ब्रह्माण्ड(l.10)कोटीशतघस्मरस्य ॥
आकृष्टः पाशो यैस्तैः कालदूतैरिव खड्गहस्तैः पुरुषैः केशेषु गृ(l.11)-
हीत्वा महाकालायतनं प्रवेश्यमानमेवं क्रन्दन्तं स राजा ददर्शोति सम्बन्धः .
ग्रस्तकाल(l.12)कामतिपुराख्यपंचाहूतेस्तथा ब्रह्माण्डकोटीशतग्रासिनस्ते नृणां
मध्ये कीटेन मया(l.13) का तृप्तिः ॥ 107.
सर्वाङ्गशुद्धस्य सुधारुचेर-
प्यालोकयामो हृदि कालिमानम् .
त्रैलोक्यकर्णो(l.14)- 108.
Lines 15 to end of page missing
शेषोपि बलैकरूपो
गोरक्षणं साहसिकः करोति .
तव दर्शनं यद्यप्राप्तं तत्तर्हि सहसा बले(l.1)न करणेन त्वयैव योग-
णीत्वं प्रापितः स प्रकाश्यताम् यो शेषो न शेषोपि बलैकरूपो बलसहायो
हलधरंसमोयं साँह(l.2)सिको गोरक्षणं भूमिरक्षणं करोति ॥ 109.
1 Ms. स्मशा°. 2 Ms. पणिपां°. 3 Ms. प्राजा°. 4 Ms. °कायं. 5 Ms. °नैकी°.
6 The verse referred to by this part of comm. is lost in the lacuna at
the end of the page. 7 Ms. °कं to °र° lc. on top margin. 8 Ms.
°मयोयसां°. 9 Ms. गोरक्षणं lc. under 1.3.
२३

३. सर्ग ९-१२: सम्राट् पृथ्वीराज तृतीय बाल्यकाल, राज्याभिषेक, गोरी आक्रमण एवं विजय महाकाव्य उपसंहार

१७८ पृथ्वीराजविजयमहाकाव्यम्.
यः कोपि वा साहसिकोस्ति लोके
यस्यास्ति वा क्षत्रियतावदाता .(l.3)
कृपाकृपाणाभरणोस्ति यो वा
स पातु मां मृत्युभयादमुष्मात् ॥
यो वा साहसिको यो(l.4) वा शुद्धक्षत्रियो वा दयाखड्गभूषणो दया-
मय इति यावत् सोस्मान्मृत्युभयान्मां रक्ष(l.5)[तु] ॥ 110.
[श्रुत्वेति त]त्कालगुरुभवद्भि-
र्मेघैस्स संक्रामणदीक्षयेव .
सौदामिनीदृष्टिभिरी(l.6)[क्ष्यमाणः]
―――निर्घोषमिदं बभाषे ॥
तत्काले गुरुभवद्भिर्बहुँलीभवद्भिश्च मेघैः(l.7) ・・・・・・・・・・・・दर्यमाणः
अत्रोत्प्रेक्ष्यते संक्रामणं वधनिषेधे प्रेरणां तदीक्षयेवेति(l.8) ・・・・・・・・[उ]क्त-
वान् ・・・・・・प्रतिपादनदीक्षाया हेतोश्शिष्यं दृष्ट्या पश्यति(l.9) ・・・・・・॥111.
[अरे वराकाः करुण]प्रलापं
भाग्यैर्दृशो गोचरमागतं मे .
विमुञ्चतैतं द्रुतमन्यथा व-
स्तदा(l.10) ―― ‿ ―― ‿ ――दसिन् ॥
अरे वराकाः हे अधमाः करुणाक्रन्दिनं स्वभाग्यैर्मम(l.11) ・・・・・・
・・・・・・गोचरमेनं यूयं त्यजत तूर्णम् अन्यथा यदि न यूयं त्यजथ तदा(l.12)
・・・・・・・・शनितं(?) तद्युष्माकमा・・・・・・ति स्यात् युष्मानुपहरामीत्यर्थः
सम(l.13)・・・・・・・・・・・・सेनापरिवारितम् ・・・स(l.14) 112.
Lines 15 to end of page missing


1 Ms. °कृपाभं°. 2 Ms. सोदा°. 3 Ms. °हली°. 4 Ms. °इत्य°. 5 Ms. °ष्ट्रा.
*6 Ms. °ग्यैदृ°. 7 Ms. °व्य°. 8 Ms. °नप°. 9 Copyist's remark--अत
ऊर्ध्वं त्रिचतुराणि पत्राणि गलितानीति भाति.

,
[ सप्तमः सर्गः ]


एाश्चेत्यपिशब्दार्थः . कुम्भोदरनामा भवान्या गणस्त्वं हिमाद्रिलतानां भवा-
न्यां भगिनीनामिव य......जागरूको भवसि ॥ 1.
अवलम्ब्य मृगाधिराजभावं व्रततीनामवता वनेभभङ्गम् .
भयॅ- ⏑ ⏑ - ⏑ - -(l.2)कदाचिद्विकृतं वासववारणो ररासं ॥
सिंहरूपमभिनय हिमाद्रिलतानां......रक्षता त्वया भयं प्रा-
पितः ऐरावणो विकृतं कृत्वा क्रन्दितवान् ॥ 2.
सदसि ध्वनितेन तेन - ⏑ ⏑ - नव्यकथाप्रसङ्गभङ्गे .
अशपद्विरदास्यशब्दशङ्गाकुपिता पर्वतराजनन्दिनी त्वाम् ॥
......(l.5)न हरस्य कथाच्छेदे जाते गणपतिबृंहितमिति शङ्कया
कुपिता गौरी त्वां सभाया.........(l 6). 3.
स्वरसेन यथा तथा वनेस्मिन्नसि राजेव समुद्यतो विहन्तुम् .
परमेश्वरपाददूरवर्ती व्रज राजैव म(l.7)हीतले भवेति ॥
यथा तथानुचितं स्वातन्त्र्येण राजेव क्रीडितुमस्मिन्वने यत्त्वं प्रवृत्तोतो
महेश्वरपादादूरव(l.8)र्ती त्वं भूतले राजैव भव ॥ 4.
शनकैस्सुहृदा निकुम्भनाम्ना तव शापावधिमर्थिता भवानी .
प्रचल(l.9)त्प्रतिबिम्बिताभ्रमुक्ता द्युनदीव प्रससाद चावदच्च ॥
1 Ms. °ररा°. 2 Ms. भवान्या lc. on top margin. 3 Is it भवता भयमापितः क° ?
4 Ms. °राज- 5 Ms. °तान°. 6 Ms. °न्दनीत्व°. 7 Ms. lc. under l.7.

व्यमृशस्त्वं न ममास्ति शाप(l.14)शान्तिः .
न हि कश्चिदय॑ स्फुरत्युपाधिः पृथिवीं येन कलावुपैति रामः ॥
एवं गौरीवचश्श्रुत्वा त्व(l.15)मेवं विचारमका…………(l.16) ७.
Lines 17 to end of page missing
……य[द्गृ]हीतं तन्नूनं तयैव वासनया लिप्तं त्वां मत्वा शत्रुहस्तिनो
द्रष्टुं न शक्ताः ॥ ८.
गणकस्य गिरे(l.1)ति निर्विकल्पो नृपतिर्भूभरधारणानुतापम् .
उदकण्ठत नीलकण्ठलीलावृषलाङ्गूलनभ(l.2)स्वतापनेतुम् ॥
दैवज्ञोक्त्या त्यक्तविकल्पो राजा हरक्रीडावाहपुच्छवातेन भूभारोद्वह-
नतापं निवा(l.3)रयितुमभ्यलषत् ॥ ९.
अजयत्पृथिवीभृतस्समस्तान्स षडङ्गेन बलेन सर्वकालम् .
झटिति स्

सप्तमः सर्गः । १८१
तेजस्विनां चू(1 8)डारत्नं गूर्जरेन्द्रं तदीयं दौहित्रं प्राप्य रक्षन्कुमार-
पालस्सत्यार्थनामाभूत् ॰ कुमारोप्ताप्रराज्यो रा(1 9)जपुत्रस्सोमेश्वरस्तस्य पाल-
नान्राम सार्थक्रम् ॰ कुमारपालस्तदीयो भ्रातृपुत्रः ॥ ११.
प्रथमस्सुध(1 10)वासुतस्तदानीं परिचर्यां जनकस्य तामकार्षीत् ॰
प्रतिपाद्यजलाञ्जलिं घृणायै त्रिदधे यां(1 11) भृगुनन्दनो जनन्याः ॥
घृणीयां प्रतिपाद्यो जलाञ्जलिर्यस्यां तां निर्घृणां यां परिचर्यां शि-
(1 12)रश्छेदार्त्मिकां [पर]शुरामो मातुः कृतवांस्तां परिचर्यां पूजां ज्येष्ठस्सु-
धवापुत्रः पितुः कृतवान् ॰ पितुश्शिश(1.13)रश्छेदमकार्षीदित्यर्थः ॥ १२.
न परं विदधे वृथा गुणित्वं जनकं स्नेहमयं विनाशय यावत् ॰
स्वय(1.14)मेव विनश्य गर्हणीयं व्यतनोद्दीप इवानुरागगन्धम् ॥
स्नेहमयं जनकं केवलं न विनाशय......(1.15)............विनाशं
मरणं प्राप्य............यथा(1.16) १३.
[Lines 17 to end of page missing] (**52)
—ग्रन्तृसादिपत्तिव्यवहारेषु विसारिणा चतुर्धा ॰
युधि वीररसेन शुद्धिमन्तं न समीपादमुचत्कुमार(1 1)पालः ॥
रथादिषु चतुर्भिः प्रकारैर्विंसरता वीररसेन शुद्धिमन्तं तं कुमारपाल-
स्वसमीपान्नात्यजत् ॥ (1.2) १४.
हनुमानिव शैलतस्स शैलं द्विरदेन्द्राद्विरदेन्द्रमुत्पतिष्णुः ॰
छुरिकामपहृत्य कुङ्गुगेन्द्रं गमया(1 3)मास कबन्धतां तयैव ॥
शैलाच्छैलं हनुमान्यथोत्पतिष्णुस्तथा हस्तीन्द्राद्धस्तीन्द्रमारोहन्स कु-
ङ्गु(1.4)गेन्द्रादेव छुरिकां हृत्वा तयैव छुरिकया कुङ्गुगेन्द्रं कबन्धतां प्राप-
यत् ॥ १५.
1 Sic. Read ०न्द्रस्त०. 2 Is it घृणायै ? 3 Ms. ०घृणायाप०. 4 Ms. ०रच्छेदं.
5 Ms. ०कं. 6 Ms. कनं०. 7 Read रथ्यि०. 8 Ms. कुञ्जेरे० 9 Ms. शेलां०.

१८२ पृथ्वीराजविजयमहाकाव्यम्.
इति साहसासहा(l.5)चर्यचर्यस्समयज्ञैः प्र[तिपादि]तप्रभावाम .
तनयां स सपादलक्षपुण्यैरुपयेमे त्रिपुरीपुर(l.6)[न्द]रस्य ॥
साहसानां साहचर्यं चर्या यस्य स दैवज्ञैः कथितप्रभावां तेजलस्य सुतां
कर्पूरदे(l.7)वीं सपादलक्षैः¹ पुण्येिरूढवान् ॥ १६.
इतरेतरचित्रचौर्यचर्याचतुरत्वेपि निकामनिर्विकारम् .(l.8)
परमेश्वरयोस्तयोर्युगं तत्सुतरामेकशरीरतामयासीत् ॥
तयोः परमेश्वरयोर्महाराजयोश्शि(l.9)²वयोश्च युगं कर्तृ एकशरीरतामै-
क्यमभेदं चागच्छत् अन्योन्यं चित्रस्य चौर्यचर्याहरणं तत्र जाग(l.10)रू-
कत्वेपि सति निर्विकारम् ॥ १७.
अविभावितभावभेदलेशी³ निजनामादिपदामिधेयकल्पैः .(l.11)
शिशिरीभवदाशयो यशोभिः परितापं न कदाचिदूहतुस्तौ ॥
न विभावितोनुमितो भावस्या(l.12)न्योन्यरागस्य भेदलेशो ययोस्तौ
तथा सोमेश्वरकर्पूरदेवीति निजनाम्नोरादिपदे सोमकर्पू(l.13)रशब्दौ तदर्थ-
कल्पैर्यशोभिर्हिमीभवच्चेतसौ तौ तापं न······॥ १८.
अथ जातु हृदीव(l.14) सन्निधानं ददृशे स्वप्नविधौ विधातुकामः .
त्रि‿–‿‿‿‿–‿–‿(l.15) पद्मनाभः ॥
हृदये स्थितिं कर्तुकाम इव स्वप्ने·············(l.16) १९.
उदयावसरे हरेरभेदं ‿ – – (l.17) २०.
[Lines 18 to end of page missing][*]
·य प्रतिपादयांचकार ॥
साश्चर्यचित्तो राजा तत्स्वप्नद्वयं सृष्टिकर्तुस्सकलकर्मसाक्षिणो ज्योति-
र्विदेव⁴(l.1)र्णयत् ॥ २१.
1 i.e. ˚ल्लक्षस्य देशस्य पुण्यैः (See VI. 10.) 2 Ms. ˚शो. 3 Ms. ˚ययो. 4 Ms. ˚बेश्च˚.

सप्तमः सर्गः. १८३
स जगाद यदैक्षत क्षपाग्रे क्षितिपस्तद्भविता चिरादमोघम् .
यदुषस्यवलोकितं(l.2) तु देव्यां कलितस्तस्य न कालतोतिपातः ॥ .
राजा प्रदोषे यदपश्यत्तच्चिरेण सफलं भविष्यति(l.3) यत्तु देव्या प्रात-
र्दृष्टं² तस्य चिरकालत्वं नाकलितम् ॥ 22.
उचितामिव वाडवाग्निमैत्रीं मकराङ्कस्थि(l.4)तितः करोति भौमः .
गगने न ममास्ति कापि शोभेत्यधुना कुम्भमिवालसः प्रविष्टः ॥
मकरो रा(l.5)शिविशेषस्तस्याङ्को मध्यम्. मकराङ्कश्च समुद्रः . तत्र
स्थित्योपपन्नां वाडवाग्निमैत्रीमिव भौमः क(l.6)रोति दीप्तो वर्तते इत्यर्थः .
भौमस्य हि मकरराशिरुच्चस्थानम् . आकाशे मम न कापि शोभेत्यत् इ(l.7)-
वालसश्शनैश्चरः कुम्भं राशिविशेषं घटं च प्रविष्टः . अलसगामित्वाद्राकाशे
शोभाभावः ॥ 23.
द(l.8)नुजारिमिवानुनेतुकामो दनुजानां गुरुरेति मीनराशिम् .
अधिरोहति मेषमेष पूषा तुरगा(l.9)णामिव खेदशान्तिकामः ॥
दनुजारिं विष्णुं प्रसादयितुकाम इव शुक्रो मीनराशिं समुद्रं(l.10)
चैति तथाश्वानां विश्रमार्थमिवार्को मेषं राशिं ..... मध्यमधिरोहति ॥ 24.
विहसन्निव मेषराशिनं तं(l.11) वृषभं याति वृषाङ्कशेखरोपि .
उपलिप्सुरिवोभयस्वभावं मिथुनं संनिदधाति सोमसूनुः ॥(l.12)
मेषो हुडस्तद्राशिनं रविं हसन्निवेन्दुर्वृषं राशिमनड्वाहमपि आया⁴ति
वृषाङ्कशेखरस्वात्तंस्य वृष(l.13)स्थितिरु[चिता] ............ स्थिररूपं प्रा-
प्तुकाम इव बुधो मिथुने संनिहितः . द्विस्वभा(l.14)[व] ........ [उभ]यो
र्वीन्द्वो⁵र्वा स्वभावमुपलब्धुकामो मिथुनं हि द्वन्द्वम् ॥ 25.
1 See Canto VIII, verse 46. 2 See p. 185, verse 31. 3 Ms. ᵒनंतराᵒ.
4 Ms. आयात्ति lc. under l. 12. 5 Ms. ᵒन्दोᵒ. 6 Ms. ᵒयुᵒ etc. lc. under l. 14.