पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 99, कुल 330 में से
संदर्भ में पढ़ें, चतुर्थः सर्गः . ७६
स प्राविशद्धवलवेश्म तुषारशैल-
भ्रान्त्येव शीतलतया विहिताधिवासं ॥
सिं(1 5)हमुकमुक्तासहितासु वनभूमिषु मध्याह्वमतिवाह्य स धवलप्रा-
सादं प्रविष्टवान् हिमाद्रिरिति भ्रान्त्येव(1.6) शैत्येन कृतस्थानम् ॥ 28.
द्वारान्त एव विनिवारितवारणौघं
घर्माम्बुशीकरंकरम्बितहारदामा .
स्वाम्यन्तराश्रय(1.7)णदूषणहीनभाग्य-
मात्रानुगस्स शयनीयगृहं विवेश ॥
घर्माम्बुमिश्रितहारमौक्तिकस्स द्वारान्त एव(1 8) निरुद्धहस्तिकं शय्या-
गृहं प्राविशत् स्वाम्यन्तराश्रयणेन दूषणं निन्दा तेन हीनानि भाग्यमात्रा-
(1.9)ण्येवानुगा यस्य सः ॥ 29.
इतः प्रभृति तं वीक्ष्य भूपतिरित्यन्तं कुलकम् ॥
उद्विग्नमप्यवनताङ्गनमध्यत(1.10)ल्पा-
दारुह्य तुङ्गतममास्पदमप्रनिद्रम् .
नारायणं स्वयमिवैक्षत सेव्यमानं
गूढं श्रिया स्वशयनीयग(1.11)तं कथञ्चित् ॥
अब्धिवासेनोद्विग्नमतोप्यवनताज्जलेमध्यशयनात्प्रासादमारुह्य ल-
ब्धनिद्रं स्वयं नाराय(1.12)णं गूढमलक्ष्यया लक्ष्म्या सेव्यमानमिवेत्यु-
त्प्रेक्षां कंचित्पुरुषं स दृष्टवान् ॥ 30.
आसूत्रिताम्बुधरजङ्गम(1.13)चन्द्रशाला-
वातायनक्षणिकशक्रशरासनाभिः .
1 Ms. °म्बुशे°. 2 Ms. °हस्ति°. 3 Ms. °ताज्जाल°. 4 Ms. °ब्धान°. 5 Ms. °मिवे-
त्युत्प्रेक्षा° crossed after °या. 6 Ms. मिं° to °त्ता lc. under l. 12.