सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 81, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 81

तृतीयः सर्गः . ६१
यशसा भृता जलधिवि(l. 9)ष्णुपदे
शशिमण्डलं न न बभूव मही .
न कलङ्कवन्न च विधुन्तुदव-
त्कलिना पुनः क्वचिदवापि पदम् ॥ (l. 10)
तदीयेन यशसा भृता भूस्समुद्राकाशे चन्द्रमण्डलं न नाभूत् अपि
त्वभूदेवेत्यर्थः . कलङ्केन राहुणा य(l. 11)था पदमवापि तथा कलिकालेन
क्वापि न स्थानं लब्धम् . अयमर्थः समुद्र एवाकाशं तत्र यशश्शुभ्रा भूमि-
(l. 12)रेव चन्द्रोभूत् चन्द्रस्य कलङ्कोस्ति राहुश्च बाधते यशश्शुभ्रभूमण्ड-
लस्य तु कलिः कलङ्कराहुरूपो(l. 13) नासीदित्यर्थः ॥ १३.
सुरमन्दिरैर्दिशि विदिश्युदितं
मरुतां पतिर्मखमहीष्ववसत् .
अमरावती किम(l. 14)पि कालवशा-
द्व्यथिताभवत्पथिकयोषिदिव ॥
देवगृहैस्सर्वदिक्षूल्लसितम् यज्ञभूमिष्विन्द्रोवसत्(l. 15) कालवला[दम-
रावती] पथिकस्त्रीव व्यथिताभवत् ॥ १४.
उपनिन्यिरे शिखरिणो लघुतां
पृथुना नतां न च(l. 16) ‿ ‿ ‿ ‿ ,
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ कृते ॥
पृथुनाम्ना राज्ञो¹ इ[न्द्रे]ण (l. 17) १५.
[Line 18 missing ]
रक्षं
क्षितिमित्यगात्क इव न क्षितिभृत् ॥


1 Ms. राजा.