सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 77, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 77

[ तृतीयः सर्गः ]
समभूद्यदा स खलु दाननिधि-
र्ववृषुस्तदा सुमनसो जलदाः .
परिकम्पतां यशसि हानिभया-
त्सुरशाखिनां स्वय(l.19)मिव स्खलिताः ॥
यदा वासुदेवो जातस्तदा मेघाः कल्पवृक्षाणां पुष्पाणि ववृषुः . अत्र
सम्भाव्यते य(l.20)तो दानेन निधिरतो यशोविषये हानिभयात्कम्पमानानां
कल्पवृक्षाणां स्वयं पतितानीव(l.21) . कल्पवृक्षेभ्योप्यधिकं दातेत्यर्थः ॥ 1.
ननृतुर्दिनं सकलमप्सरसः
परिदध्वनुर्विजयदु(l.22)न्दुभयः .
प्रमदं दधुर्यममृतोद्धरणा-
त्पुनरेव तं सुमनसोन्वभवन् ॥
अप्सरसो ननृतुः पटहा⁴ दध्वनुः . सकलं दिनमित्यनेनोभ-
योर्वाक्ययोस्संबंघः . अमृतलाभेन देवा यं हर्षं प्रापुस्तज्जन्मना(l.1) पुनरेव
प्रापुः ॥ 2.
द्युनदीहृतैः कनकतामरसै-
र्मरुतो ववुर्विरचिताभरणाः .
गगनात्मना शशिशिरो(l 2)मणिना
प्रकटीकृता कनकवृष्टिरिव ॥
गङ्गाहेमपद्यैः कृतभूषणा वायवो ववुः अतस्संभाव्यते(l.3) आकाश-
रूपेण शशिशेखरेण सुर्वर्णवृष्टिरिव मुक्ता ॥ 3.
1 Ms. °कम्पितां. 2 Ms. क° to °णा lc. under l. 19. 3 Ms. °ष्यानि.
4 Ms. °हृद°. 5 Ms. स्तवं°.
८