पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 67, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः . ४७
म्बरो मूर्त्तिमहणं यया सा हरस्य संहारशक्तिरिव सर्वैरूत्तमस्त्रीलक्षणैर्भूषि-
(l.13)तं नानारत्नधारकं शरीरं दधती अत एव रत्नाकरस्याधिदेवतेव ता-
म्बूलकरङ्कवाहिनी पुरोस्याभवत् ॥(l.14) 54.
इदं ममोन्मूलयति स्म यश्छला-
दमुष्य वक्त्राणि यथैव सन्ति षट् .
तथैव दन्तान्दनुजक्षयक्षमा-
नहं(l.15) न गृह्णामि किमित्यसूयया ॥ 55.
गृहीतवानभ्यधिकं प्रभावतः
शतिर्गणानामिव दन्तपञ्चकम् .
मुखा(l.16)नुरूपीकृतसर्वविग्रह-
स्तमन्वगादाजिषु गन्धसिन्धुरः ॥
युगलकम् ॥
यो मम दन्तं छलादुन्मू(l.17)लितवांस्तस्य कुमारस्य यथा षट्मुखानि
सन्ति तथैव षट्संख्यान्दानवदलनदक्षान्दशनान(l 18)हं किं न दधामी-
त्यसूयया प्रभाववशाहन्तपञ्चकमाददानो मुखसदृशीकृतसमस्तशरीर(l.19)
ऐकदन्त इव गन्धहस्ती समरेषु तमन्वगात् ॥ 56.
दिगष्टकं जेतुमशेषमंशुमा-
नवश्यमष्टैव (l.20) बभार वाजिनः .
इमं त्वमुष्मै प्रतिपाद्य सूनवे
ध्रुवं गतस्संप्रति सप्तसप्तताम् ॥ 57.
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿
‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ ‿ .
[विलङ्घनीयेन] ‿ ‿ ²द्विहायसा
स्वकान्तिसर्वस्वं[ मिवार्पितं दधत् ] ॥
1 Is it ॰नित्य॰ ? 2 Ms. ॰रोप॰. 3 Ms. द्वि॰ to ॰स्व lc. under l.25.