पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 65, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः ४५
तव पिता सूर्यो मां कंचित्कालं संवर्ध्य मम हानिं करोति(l.16) त-
स्माद्धेतोर्हं यशस्विंस्त्वमेव मां रक्षेतीव सेवायां सक्तं चन्द्रमण्डलम् ॥ तथा ॥
मधो रि(l.17)पुर्विष्णुः पुष्करं यथा विश्रामस्थानं जानाति तथा न मां
जानाति तस्माद्धेतोम्लेंच्छोपद्रवश्शीघ्रमे(l.18)व वार्यतामित्यतो हेतोस्सेवकं
क्षीरसमुद्रमिव ॥ 47.
हिरण्यगर्भस्य कमण्डलूदरे
यमेव सं(l.19)स्थानविशेषमश्नुते .
तमेव धृत्वेव महेश्वरभ्रमा-
त्स्थितं हृदं मूर्धनि सौरसैन्धवम् ॥
ब्रह्म(l.20)णः कमण्डलुमध्ये गङ्गाजलं यमेव संनिवेशनं प्राप्नोति तमेव
संनिवेशं गृहीत्वायं महेश्व(l.21)र इति भ्रमाच्छिरसि स्थितं गङ्गाप्रवाह्मिति
रूपकम् . अयमपि हि महान्भूमेरीश्वरः ॥(l.22) 48.
नभस्सरस्सारसयोर्बलद्विषा
हिमाचलस्य स्फटिकाचलस्य च
ध्रुवं कृतं पक्षतिभिर्नभश्चरै(l.23)-
रमित्रशान्त्यर्थमुपायनीकृतम् ॥
नभ एव सरस्तत्र सारसयोर्हंसयोर्हिमाद्रिकैलाशयोः(l.24*) संबन्धि-
भिः पक्षतिभिः पक्षैरिन्द्रेण नूनं कृतं सच्छत्रुत्त्यर्थं देवैर्ढांकनीकृतम् ॥ 49.
अदृश्यमूर्तिस्स्वयमुष्णवा(l.1)रणं
रथाङ्गपाणेस्सहधर्मचारिणी .
समुन्नतिं सूर्यकुले करिष्यतो
रघोरिवास्यापि बभार मूर्धनि ॥
जनै²(l.2)रहश्या श्रीस्सूर्यकुले माहात्म्यं करिष्यतोस्य रघोरिव शिरसि
धृतवती छत्रम् ॥ कुलकम् ॥ 50.
¹ Ms. हदं. ² Ms. देवै° lv. above l. 1.