पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 63, कुल 330 में से
संदर्भ में पढ़ेंद्वितीयः सर्गः . ४३
यदस्ति किंचित्करणीयमुच्यतां
तदित्यभूत्प्राञ्जलिरग्रतस्तयोः ॥ (l.13)
सप्त महतः प्रभावानवाप्य सप्तमचक्रवर्तिभावं लभमानस्स कर्तव्यमा-
ज्ञाप्य(l.14)तामिति वदंस्तयोः पुरो बद्धाञ्जलिरभूत् ॥ 41.
सुदर्शनस्य प्रतिपादकं प्रति(l.15)
त्रिनेत्रमुत्तानितपूर्वमेकदा .
पुरोस्य विश्वाभयदक्षिणाकृते
प्रसारयामा(l.16)स करं जनार्दनः ॥
सुदर्शनस्य चक्रस्य दातारं त्रिनेत्रं प्रति हरिणा कदाचि(l.17)त्पूर्वमु-
त्तानितं हस्तं हरिरस्याग्रे जगदभयदक्षिणार्थं प्रसारयामासोत्तानं(l.18)
कृतवान् ॥ 42.
ततो नियुक्तस्स यथोदिते विधौ
विधौ च देवे च विधौ तिरोहिते .
यश(l.19)स्यमर्त्यारि——⏑—विधौ
विधौतपाप्मा भरबन्धमग्रहीत् ॥
विधौ ब्रह्मणि वि(l.20**³)धौ विष्णौ च देवेन्तर्भूते सति ताभ्याम-
सुरवधे प्रेरितो विधौतपाप्मानुचितपापस्स पुरुषोसुरप(l.1)द्यानां संकोचक-
त्वाच्चन्द्रसंमे यशसि भरबन्धमभिनिवेशं गृहीतवान् ॥ 43.
करेण चापस्य ह(l.2)रेर्मनीषया
बलेन मानस्य नयस्य मन्त्रिभिः .
धृतस्य नामाग्रिमवर्णनिर्मितां
स चाहमानोय(l.3)मिति प्रथां ययौ ॥
1 Ms. °ससो°. 2 Is it °रिसरोजिनीविधौ ? 3 Ms. पृ. रा. वि. on margin.
4 Ms. चन्दसं°. 5 Ms. निन्दितां.