सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 43, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 43

प्रथमः सर्गः . २३
भावे क्तः . क्षारेणाब्धिना कि फ(l.24)लमित्यतो वरुणोऽपि तदेव तीर्थं सर्वस्वं
जानाति समुद्रादपीदमतिपवित्रमित्यर्थः ॥ 59.
तत्पावनं पा(l.25**¹⁾वकतोपि मत्वा
नभस्वता किङ्करता गृहीता .
मरुस्थलीभ्यो मृगतृष्णिकान्धो
न तन्मृगस्तत्पुलिनं जहाति ॥ (l.1)
वायुरग्नेस्सखेति प्रसिद्धिः . अग्नेरपि सकाशात्पवित्रं तत्तीर्थं मत्वा
तस्य तीर्थस्य वायुना किङ्करता गृ(l.2)हीता . वायुर्दासवत्तत्र वसतीत्यर्थः .
मरुस्थलीभ्यो मृगतृष्णिकयान्धस्तन्मृगः पुष्करतटं न जहातीत्यु(l.3)त्प्रेक्षा ॥
अन्धश्चैकत्रैवावतिष्ठेते . 60.
तटात्तटं मन्द्रमटाव्यमानं
मत्वा ककुद्मन्तमुमापतेस्तत् .
स्वार्थं च पुण्यं च विदन्नुपास्ते
ध(l.4)र्नाधिपो लिप्सितजातरूपः ॥
हरस्य वृषभं तटान्तरेषु शनैर्कुटिलतया भ्रमन्तं मत्वा स्वार्थं च(l.5)
पुण्यं च तदुपासनेन मन्यमानो वैश्रवणस्तत्तीर्थं सेवते यंतो लिप्सितानि
लब्धुमिष्टानि जातरूपाणि जातमब्धिजातं(?)(l.6) येन सः . हरवृषभस्य संचा-
रेण जातरूपाणि जायन्ते इति प्रसिद्धिः ॥ 61.
रुद्रेषु मूर्धस्थसुरा(l.7)पगेषु
त्रिपुष्करे सन्निहितेषु जाने .
चतुर्दशभ्यो भुवनेभ्य एव
पवित्रता संघटिता तदानीम् ॥(l.8)
1 Ms. पृ. वि. ७ vertically on margin. 2 Ms. समस्थ्यं . 3 Ms. अ° to
°ते lc. on margin. 4 Ms. °राधि°. 5 Ms. °शनैः कु°. 6 Ms. °येतो°.
7 Ms. चि crossed with vertical strokes before यें. 8 Ms. °रन्निम्म°,