सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 41, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 41

प्रथमः सर्गः २१
मरुप्रयाणक्रमखिन्नभिन्न-
स्ववाहकण्ठासृगनस्ततृष्णाः ।
पिब(l.6)न्ति तान्यद्य पयांसि पापा-
स्सुधान्धसामाचमनोचितानि ॥
मरौ धावनजातेन कष्टेन खिन्ना अत एव भि(l.7)न्नेभ्यः क्षतरक्तवाहिना-
डीव्यधेभ्यस्स्ववाजिकण्ठेभ्योसृजा रक्तेनानस्ता अनपेता तृष्णा येषां ते पापाः
(l.8) सुधान्धसाममृतानामपि शोधनयोग्यानि पेयानि वा तानि जला-
न्यद्य पिबन्ति ॥ ५४.
सप्तर्ष(l.9)यः कामदुघापयोभिः
प्रारेभिरे प्राक्परमान्नपाकम् ।
हृत्वाधुना जीवत एव मत्स्या-
न्पचन्ति पुण्ये पुलि(l.10)ने पुलिन्दाः ॥
कामधेनुक्षीरैर्हेतुभिस्सप्तर्षयः पायसपाकं यत्र प्रारब्धवन्तस्तत्राद्य तत्तटे
पवित्रे(l.11)पि⁵ मीनानुद्धृत्य किराताः जीवत एव पचन्ति ॥ ५५.
सुतः पुरस्ताद्ध्रुवतानिमित्त-
मुत्तानपादस्य तपस्यति(l.12) स्म ।
अवीचयः पुष्करतोद्य पापैः
पापैकनिष्ठैस्सुगमीक्रियन्ते ॥
यत्रैवोत्तानपादपुत्रो ध्रुवतां प्राप्तुं(l.13) तपः कृतवांस्तत्रैव पापैर्वनिष्ठैः
पापैम्लेंच्छैरद्य पुष्करेऽवीचयो नरकविशेषास्सुलभाः क्रियन्ते ॥ (l.14) ५६.
इत आरभ्य दिशन्तीत्यन्तं पुष्करस्तुतिकुलकम् ॥
1 Ms. तानं. 2 Ms. मेरौ. 3 Ms. कण्ठे°. 4 Ms. व्यथे°. 5 Ms. जीवत
एव crossed with vertical strokes before ०मी, and lc. under l. 11 after ०ताः.
6 Ms. ०निष्ठे°. 7 Ms. ०निष्ठेः.