पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 37, कुल 330 में से
संदर्भ में पढ़ेंप्रथमः सर्गः . १७
तुष्यन्ति यथास्माकं त्रयाणां संनिधानात्त्रिपुष्करे तुष्यन्ति मुक्तिकामाः . अस्म-
द्ध्रुव(1.15)नादप्यधिकं तूर्णमेवात्र मोक्षसिद्धिः ॥ 41.
कैलासशैलादपि निर्मलानि
क्षीरोदधेरप्यमृतं स्रवन्ति . (1.16)
[नाभ्या]लयाब्जादपि पुण्यगन्ध-
पद्मानि [हि] त्रीण्यपि पुष्कराणि ॥
देवत्रय्यास्त्रिपुष्करसंनिधाने हे(1.17)तुमाह कैलासक्षीरसमुद्रनाभिपद्मा-
दधिकगुणानि त्रीणि पुष्कराणि हि भवन्ति ॥ 42.
ब्रह्मर्षिगे(1.18)हेषु सुखं स्थिताया-
स्सरस्वतीनेत्रतया त्रिवेद्याः .
शीता प्रमोदास्रसरत्त्रयी सा
स्वामिन्निहानेहसि(1.19) [तप्त]मास्ते ॥
[ब्रह्मर्षी]णामाश्रमेषु सुखं वसन्त्या वेदत्रय्या सरस्वतीनेत्रभावेन तस्या
हर्षबाष्पस(1.20)रत्त्रयी शीतलस्वभावा हे स्वामिन्संप्रति तप्तं संतापतयास्ते
स्थिता ॥ 43.
कलेर्बलात्पाशुपतास्त्रनी(1.21)त्या
याते वृषे साम्प्रतमेकपद्यम् .
त्रिलोचनो वाहनदुःस्थितत्वा-
स्त्रैलोक्ययात्राविमुखत्वमेति ॥
पा(1.22)शुपतास्त्रवदद्य धर्मे कलिबलादेकपदे संपन्ने वृषवाहनो भग-
वान्बृषस्य यद्दुःस्थितत्वात्पादत्रय(1.23)नाशात्त्रिभुवनयात्रापराङ्मुखत्वमेति .
प्रतीयमानोत्प्रेक्ष्येयम् ॥ --- 44.
1 Ms. °य° lc. under 1.22. 2 Ms. प्र° to °यम् lc. under 1.24.
३