सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 310, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 310

द्वादशः सर्गः । २६३
प्रविवेश(l. 8) [विनिर्य]यौ च य-
न्नयनाग्नेर्मेदनः पिनाकिनः ।
नृपतिं प्रबलप्रतापम-
प्युपसर्पन्नव नात्रसत् ॥
ह(l. 9)रस्य नेत्राग्निं कामः प्राविशन्नेत्राग्नेर्यश्च निर्गतस्ततो महाप्रता-
पमपि राजानं प्रवि(l. 10)शन्नात्रसत् । अग्निं सेवमानस्य तापत्रासाभा-
वात् ॥ ४.
मिलितभ्रमरालिकालिकं
बहुभेदैः कुसुमैः (l. 11) कृतं धनुः ।
स्वकरादिव जिष्णुनाऽर्पितं
क्षितिजिष्णोर्विजिगीषया वहन् ॥
मिलितेत्यारभ्योपर्कं (l. 12) र्तुमित्यन्तं कामवर्णनपरं कुलकम् ॥
भ्रमरालिरेव कालिका मेघपंक्तिरपि मिलिता यत्र त(l. 13)था वर्णवै-
चित्र्याद्बहुभेदैः पुष्पैः कृतं धनुर्दधत् अतस्संभाव्यते क्षितिजिष्णो राज्ञो
विजिगीषया(l. 14) हेतुभूतया इन्द्रेण स्वहस्तादिव दत्तम् तद्धि मेघपंक्तिसहितं
बहुफलं च भवति, क्षितिजिष्णोरि(l. 15)ति साभिप्रायम् ॥ ५.
अलिपंक्तिमयं मुहुर्मुहु-
र्मकरन्दाङ्कितमास्पृशन्गुणम् ।
विरलाग्निशि(l. 16)खाधिवासितं-
प्रतिपक्षेक्षणधूमधूसरम् ॥
भ्रमरमालामयं रजोयुक्तं गुणं पुनः पुनस्स्पृशन् अल्पाभि(l. 17)रग्नि-
ज्वालोभिस्सहितो यः प्रतिपक्षस्य हरस्य नेत्रधूमस्तेन धूसरम् ॥ ६.
1 Ms. °ईमनः. 2 Is it °येश्च ?. 3 Ms. तीव्रप्रतापमपि crossed after °नं.
4 Ms. °नाश्रवस°. 5 See verse 8, below. 6 Ms. °सिताप्र°. 7 Ms. °यत्प्र°.