पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 242, कुल 330 में से
संदर्भ में पढ़ेंनवमः सर्गः . २२५
⏑⏑-́- (1.1)तुङ्ग्रिमगभीरते गुणा-
वितरेतरावव्यवहितौ दधाति यः ॥
स्वपरिश्रमेणोद्धृतोल्लङ्घितौ यौ(1.2) क्ष्माधरासिन्धुनायकौ ओषधिपर्वत-
समुद्रौ ताभ्यां पतिताविव तुङ्गत्वगाम्भीर्ये गुणौ अन्योन्य(1.3)मव्यवहितौ
संमुखश्रितावविरोधकरौ यो दधाति . तुङ्गत्वं गाम्भीर्यविपर्ययः गाम्भीर्यं
तुङ्गत्व(1.4)विपर्ययः . अविरोधकाविति चिन्त्यम् ॥ 42.
फलशङ्कया विहितझम्पयोः पुरा
शशिसूर्ययोश्चकितयोश्च्युतं महः .
परिट्ट(1 5)द्धतामिव नयत्यहर्निशं
दधदन्वयाभरणदासकर्म यः ॥
चन्द्रार्कौ फले इति भ्रान्त्या दत्तो(1.6)त्प्लुतित्वाच्चकितयोश्चन्द्रार्कयोः
पतितं तेजः कर्मभूतं यो वृद्धिं नयति . अत्र हेतुः चन्द्रार्कयोरन्वया(1.7)-
भरणं पृथ्वीराजस्तस्य दास्यं धारयन् ॥ 43.
सचिवेन तेन सकलासु युक्तिषु
प्रवणेन तत्किम(1.8)पि कर्म निर्ममे .
मुखपुष्करं शिशुतमस्य यत्प्रभोः
परिचुम्ब्यते स्म नवयौवनश्रिया ॥
स(1 9)मस्तेषूपायेषु सामादिषु चतुरेण कदम्बवासेन तत्कर्म कृतं येन
बालस्यापि राज्ञो मुख(1.10)पद्मं यौवनोचितया लक्ष्म्या परिचुम्बितम् .
यौवनोचितं समस्तपृथ्वीजयं बाल एव कृतवानित्य(1.11)र्थः ॥ 44.
1 Can it be श्रुतिमात्रतुं ? 2 Ms. अ° to °न्यम् lc. after °यः under l. 4.
Querry. Is it written by some one who revised the Comm. ? The word
described चिन्त्य is not the author's, but the Comm's. In the text °तरव्यव°
would also suit. Cf. p.196, note 10.
२६