पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 240, कुल 330 में से
संदर्भ में पढ़ेंनवमः सर्गः . २२३
गुरुशुक्रयोस्स(1.4)चिवयोरुपर्यधो
बलंविद्विषा च बलिना च वर्त्यते .
इति मध्यमं भुवनमाश्रितस्तयो-
रुभयोरपि(1.5) प्रतिभया भयाय यः ॥ 36.
स कदम्बवास इति वासवादिभिः
स्पृहणीयधीर्व्यसनमध्यपाति(1.6)भिः .
अवगाहते सहचरस्सुमन्त्रितां
परिरक्षितुं क्षितिधरस्य सद्गुणान् ॥
जीवे सचिवे सति(1.7) बलंविद्विषेन्द्रेण दिवि परिवर्त्यते . स्वार्थेणिच् .
शुक्रे सचिवे सति बलिदानवेन पाताले वर्त्यते(1.8) इति बुद्धयेव यः कद-
म्बवासनामा सचिवस्तयोर्भयार्थं मध्यमं स्वर्गपातालमध्यस्थं भुवनं भू(1.9)-
मिमाश्रितस्स सहचरो राज्ञष्षड्गुणान्रक्षितुं मन्त्रित्वं धारयति व्यसनप-
तितैरिन्द्रादिभिः(1.10) काङ्क्षणीयबुद्धिः ॥ 37.
हनुमन्तमैनमपि रुद्रमामन-
न्त्यपरानसौ दशसु दिक्षु रक्षितुम् .
नृ(1.11)पतेर्यशो नियुयुजे स्वयं पुन-
स्सकलक्रियानुचरभावमश्नुते ॥
जना एनं कदम्बवासं ह(1.12)नुमन्तं रुद्रमामनन्ति तथा हि राज्ञो
यशो रक्षितुं दशसु दिक्षु सैन्यान्विसृष्टवानसौ(1.13) कदम्बवासः स्वयं
निखिलकार्येष्वनुचरत्वं भजते ॥ 38.
कपिलक्ष्णाँ कपि(1.14)लतां वहन्निति
प्रतिभाधनैः प्रतिपदं परीक्षितः .
1 Ms. फल°. 2 Comm. षड्गुणान्. 3 Ms. बलिवि°. 4 Ms. ॰न्तमपि. 5 Ms. हनु-
(1.13)मान् crossed with vertical strokes after ॰सौ. 6 Ms. पुनः crossed
with vertical strokes after ॰सः. प्रायः written under स्वयं. 7 Ms. ॰क्षणां.