सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 238, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 238

नवमः सर्गः . २२१
न यथा ते(l.7)था व्यवहरत्युषर्बुध-
श्शुभमेव चिन्तयति सर्वसद्मनाम् .
विजहत्सु शूरतनयेषु शस्त्रां
स्वप्(l.8)दे न लोहचरणोपि दृश्यते ॥
उषर्बुधोऽग्निस्स्वेच्छया न व्यवहरति सर्वगृहाणां शुभमेव ध्याय(l.9)ति
तथा शूरा वीराः शूरोर्कश्च तत्पुत्रेषु शस्त्राणि त्यजत्सु सत्सु शूरतनयो लोह-
चरणः स्वस्थाने न दृ(l.10)श्यते ॥ २९.
यमकिङ्करेष्वपि निरुद्धसंचरे-
ष्वविशन्न यातुपतिसैनिकांः क्षितिम् .
मरुमेदिनी(l.11)ष्वपि विहाय विक्रियां
मधुरत्वमेव वरुणेन सेव्यते ॥
यमकिङ्करेष्वपि रुद्धप्रवेषेषु सत्सु (l.12) यातुपतिसैनिका राक्षसा भुवनं
न प्रविष्टांः . क्षारत्वं त्यक्त्वा वरुणेन मरुषु माधुर्यं सेवितम् ॥ ३०.
परिर(l.13)क्षतीव कमलस्थितां श्रियं
सरसामुपान्तविपिनेषु मारुतः .
धनदस्य जाग्रति वसुंधराधवे
न(l.14) निधिप्रजागरमकुर्वतोरगांः ॥
सरसामन्तेषु वायुः पद्मलक्ष्मीमिव रक्षति तथा राज्ञि रक्षा(l.15)र्थे
जाग्रति सर्पा निधिरक्षार्थं प्रजागरं नाकुर्वन् ॥ ३१.
नृपतिस्स्वयं स्फुरति वैष्णवं मह-
, स्तदुपर्यु(l.16)पस्क्रियत रुद्रतेजसा .
1 Ms. °न्त्युष°. 2 Ms. सखियां. 3 Ms. °कः. 4 Ms. °विष्ठाः. 5 Cfr.
verse 10, supra. 6 Ms. °पस्क्रि°.