पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 229, कुल 330 में से
संदर्भ में पढ़ें[ नवमः सर्गः ]
इति हृद्गतेन दयितेन रुद्रता-
मुपजग्मुषा मुषितमोहदोहदा •
अपवर्गपद्धतिमिवानुपप्लवां
तनयश्रियं नृपवधूर(1.3)शिश्रियत् ॥
एवं रुद्रभावं गतेन हृद्गतेन भर्त्रेव निवाँरितमोहोत्पत्तिः कर्पूरदेवी
निर्बाधां मोक्ष(1.4)वीथीमिव पुत्रलक्ष्मीमधारयत् ॥ १.
तनयोभ्यषिच्यत यदा तदापत-
नंगनादनभ्रमलिनादपां(1.5) कणाः •
असमञ्जसव्यवसितापसारणं-
प्रथितग्रहाम्बुजलशीकरश्रियः ॥
यदा राजपुत्रो(1.6)भिषिक्तस्तदा निरभ्रादाकाशाज्जलकणाः पेतुः अस-
मञ्जसमनुपपन्नं यद्व्यवसितं व्यवसायः(1.7) प्रजापीडनं तस्यापसारणं त्या-
गस्तेन प्रथिता निर्गता ये ग्रहास्तत्कणास्तत्समाः⁵. उपमोपक्रमो(1.8)त्प्रेक्ष्येयम् .
व्यथितेति पाठो नार्षः वैद्यमाणाविरोधात् • यद्वा व्यथितेति पाठः विपूर्व-
स्यायतेः(1.9) निष्ठायां रूपम् ॥ २.
शशिसूर्ययोः ससुतयोर्हि⁸ मानसं
कुलपद्मपातमतिमात्रमश्नुते •
परि(1.10)पालितां स्वयमवेक्ष्य मातरं
न महीसुतः स्पृशति जातु वक्रताम् ॥
1 Ms. ॰वपू॰. 2 Ms. ॰वेथी॰. 3 Ms. ॰तद्व॰. 4 Ms. ॰सरण्य॰. 5 Ms. ॰माउ॰.
6 Ms. ॰वैव॰. 7 Ms. स्वसु॰. 8 Ms. शनिबुधयोः written above ॰र्हि under l. 9.