सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 227, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 227

२१० पृथ्वीराजविजयमहाकाव्यम्.
श्वेतसमं तं प्रसादपात्रं श्रुत्वा तत्पुत्रपालितं देशं यमो(l.4) नाद्याप्य-
काले विशति . अद्यापीत्युभयोश्श्लोकयोर्योज्यम् ॥ 96.
पादाधिष्ठितपृष्ठं तं वृषमारोहतश्चि(l.5)रे .
पश्यन्त्यद्यापि सासूयं नन्दिप्रभृतयो गणाः ॥
पादेन तत्पृष्ठमधिष्ठायेश्वरे वृषमारोहति(l.6) सति नन्दिरुद्रादयो गणा-
स्सोमेश्वरं सासूयमद्यापि पश्यन्ति. परस्योत्कर्षासहनमसूया . तदु(l.7)त्कर्षं
न सहन्ते इत्यर्थः ॥ 97.
स्वयं निर्मितपूर्वस्य सरसः परिवृद्धये .
गृहीतामिव वास्तव्यासौम(l.8)नस्यमहोदधेः ॥ 98.
पितुर्मन्दाकिनीं मूर्ध्नि भगवद्भावलाञ्छनम् .
स वारुणस्य बाणस्य प्रतिष्ठा(l.9)फलमैच्छत ॥
ईश्वरसायुज्यज्ञापिकां गङ्गां वरुणबाणप्रतिष्ठायाः फलं स दृष्टवान्(l.10)
स्वेन निर्मितस्य सरसो वृद्धयर्थं पौरसौमनस्यसमुद्राद्गृहीतामिव ॥ 99.
स सर्वपूर्वपुरुषान्वश्यन्रू(l.11)द्रत्वमागतान् .
आत्मैव पुत्र इत्यर्थं श्रौतं सत्यममन्यत ॥
ईश्वरभावं प्राप्तान्सर्वान्पूर्वपुरुषा(l.12)न्पश्यन्स राजा पुत्र आर्त्मेति
वैदिकं वचनं सत्यं मतवान्. स्वस्यापि रुद्रत्वप्राप्तेरिति भावः ॥ 100.
किं(l.13) भूयसा गिरिशवत्स सर्वगततामगात् .
पृथिवीराजकीर्त्तीनामियत्तामिव वीक्षितुम् ॥(l.14)
बहुनोक्तेन किम् . ईश्वरतुल्यं स राजा सर्वगतोभूत् पुत्रयशसामियत्ता-
मिव द्रष्टुम् . पृ(l.15)थ्वीराजयशांसि सर्वव्यापीन्यभूवन्निति तात्पर्यम् ॥ 101.
1 i.e. 96, 97. 2 Ms. °त्यद्या°. 3 Ms. °भ्रेन्दा°. 4 Ms. °सांयु°. 5 Ms. °र्वपु° lc.
under l. 10. 6 Ms. °न्पशन्न°. 7 cf. आत्मा वै पुत्रनामासि. Shatapatha Br, 14, 9, 4, 26,