पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 219, कुल 330 में से
संदर्भ में पढ़ेंअष्टमः सर्गः . २०१
सगर्भा महिषी तेन पुत्रेणाधिकमतुष्यत् गर्भस्थितेन पुत्रेण ज्येष्ठ-
•••••शिक्षितेव ॥ 48.
माघस्याथ तृतीयास्यां सितायामपरं सुतम् .
प्रसादमिव पार्वत्या मूर्त्तं परमवाप सा ॥
मूर्त्तं गौर्याः प्रसादमिव सा द्वितीयं पुत्रं गौरीतृतीयास्यामवाप-
[त्] ॥ 49.
――(l.23*)――――――――― .
――――पदानां यत्कृतार्थत्वाय पस्पृशे ॥
यु(l.1)द्धेष्वस्य हस्तिदलनलीलां भविष्यन्तीं जानतेव हरिराजनाम्नायं
स्वस्य कृतार्थत्वाये(l.2)व स्पृष्टः . हरिराजो हि हस्तिमर्द्दनः ॥ 50.
उष्णशीतलयोर्मध्ये पावनं ज्येष्ठमाधयोः .
सोमे(l.3)श्वरसुवोजन्म वह्निगङ्गाम्भसोरिव ॥
सोम उमासहित ईश्वरः सोमेश्वरो राजा च तद्भवोर्ग(l.4)णेशकुमार-
यो राजपुत्रयोश्वोष्णशीतयोर्ज्येष्ठमाधयोर्मध्येऽग्निगङ्गाजलयोरिव जन्म पाव-
नमभूत् ॥(l.5) 51.
निदाघमाघजन्मभ्यां पीर्त्वा(?) तीव्रत्वमाययौ .
ताभ्यामातपशीताभ्यामिव प्रत्यर्थिकर्णयोः ॥(l.6)
निदाघे माघे च जन्म ययोस्ताभ्यां राजपुत्राभ्यामातपशीताभ्यामिव
वैरिकर्णयोः पीर्त्वा(l.7) तीव्रत्वं प्रापत् ॥ 52.
अथ भ्रातृम्यत्याभ्यां सनाथां जानता भुवम् .
जग्मे विग्रहराजेन कृतार्थेन शि(l.8)वान्तिकम् ॥
1 Sic. 2 Ms. गो°. 3 Ms. ॰जापु°. 4 Ms. ॰वाभू°. जन्म पावनं lc. on
margin. 5 Sic. Is it पीडा ?
२६