सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 111, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 111

६२ पृथ्वीराजविजयमहाकाव्यम्
निधायाश्वमारुह्य प(l.7)श्चात्प्रदेशमपश्यन्राजधानीं गच्छेत्येतावतीमप्रतिम-
क्लीमुपकृतिं कुरु मे ॥ ६८.
उक्त्वेत्यदृश्य(l.8)पदवीमुपयाति तस्मि-
न्विश्वम्भरापरिवृढः प्रणिधायं सैन्यम् .
दृष्ट्वा कुलस्य परमभ्यु(l.9)दयं कृतार्थो
देवस्स्वयं द्युमणिरस्तमयं प्रपेदे ॥
एवमुक्त्वा तस्मिंस्तिरोहिते सति स भूप(l.10)तिस्सेनां व्यसृजत् स्वकु-
लस्य म॑हान्तमुदयं दृष्ट्वा कृतार्थस्सन्निव सूर्यो लोकान्तरमगात् ॥(l.11) ६९.
भूमिं प्रविष्टवति कुन्त इवाथ भास्व-
त्युच्चैस्तरां लवणसिन्धुरुदच्छलद्यत् •
तत्रास्ति कारण(l.12)लवो न हि कश्चिदन्यो
राज्ञः प्रभावमहिमा स समस्त एव ॥
यथा कुन्ते तथा भास्वति(l.13) भूमिं प्रविष्टवति सति उच्चैस्तरां क्षार-
समुद्रो यदुच्छलितवांस्तत्रान्यो हेत्वंशो न विद्यते स स(l.14)र्व एव राज्ञो
[भूपतेश्चन्द्रम]सश्च प्रभावः ॥ ७०.
अत्यद्भुतं किमपि कुन्तमुखेन कर्म
निर्मातुमु(l.15)त्कलिकयावतरङ्गितस्य •
वा— — ˘ पृथ्वीपुरुहूतबाहो-
रन्यैव काचिदुदपादि तदा(l.16) स्फुरत्ता ॥
कुन्तेन किमप्यद्भुतं कर्म निर्मातुमुत्कण्ठयेव व्याप्तस्य ...........
......(l.17)लोकोत्तरा स्फुरत्ता कम्पो जातः . उदपादीति कर्तरि लुङ्॥ ७१.
1 Ms. °च्छेतीता° 2 Comm. right if the text is taken to be मेऽद्वितीयां;
but मे द्वितीयां is better as the प्रथमा उपकृति is the restoration of the गुटिका.
3 Sic. Read प्रजिघाय. 4 Ms. माहा॑. 5 Ms. चन्द्रस्य lc. on margin.
6 Restore वामितरस्य पृ°.