पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 107, कुल 330 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः । ८७
कार्पण्यगी(l.19)रमृतदीधितिबिम्बमध्या-
दुल्केव निष्पतदिति त्वरितं बभाषे ॥
अवमानश्रवणाभावमुदा(l.20)हरति . यद्यस्मात्तं विद्याधरं नम्रमुखं
वक्तुकामं दृष्ट्वा स राजा भीत इव विद्याधरस्य मुखादमुष्मादन(l.21)र्होत्कृ-
ष्णवाक् चन्द्रमण्डलादुल्केव मा स्म पतदित्यतस्तूर्णं भाषितवान् ॥ ५३.
· मान्येन घर्मविव(l.22**21)शेनं तथान्तरिक्षा-
देत्यान्वभूयत सुषुप्तदशाप्रवेशः .
एषा यथा सकलमङ्गलकोश(l.1)मुद्रा
याता न सिद्धगुलिकैव न यामिकत्वम् ॥
मान्येन विद्याधरेण तापाकुलेनाकाशादेत्य(l.2) स्वापस्थानुभूतः यथा
मङ्गलमेव कोशस्तस्य मुद्रेयं सिद्धगुलिकैव यामिकत्वं न न प्रापद्(l.3)पि
तु प्रापत्, एवं राज्ञा गुलिकायाः प्रकाशनं कृतम् ॥ ५४.
एतावतेव नृपतेर्वचनामृतेन
संपूर्(l.4)र्णकर्णकुहरस्य नभश्चरस्य .
राहोर्मुखादिव विनिर्गतमिन्दुबिम्बं
तत्कालमेव ददृशे मुखम(l.5)न्यदेव ॥
इयन्मात्रेणैव राज्ञो वाक्यामृतेन पूरितकर्णस्य विद्याधरस्य मुखमन्य-
देव तत्काल(l.6)मेव दृष्टम् अतो राहुमुखान्निर्गतं चन्द्रबिम्बमिव ॥ ५५.
आदाय तां क्षितिपतेश्च सुधांशुले(l.7)खा-
मम्भोनिधेरिव स खेचरचक्रवर्ती .
प्रारम्भचर्चितविषादविषावतीर्णां
पीडां विधूय(l.8) परमेश्वरतामवाप ॥
1 Ms. has पृ. वि. २६ vertically on margin. 2 Ms. विवविवशे°. 3 Ms. ॰मिन्दु°.