सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 105, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 105

, चतुर्थः सर्गः . ८५
भूरेव भुजिष्या दासी तया स्वेच्छया यथेच्छं प्र(l.16)काश्या रमणीयाः
पदार्थसार्था यस्य तस्मिन्नाजनि एवं विकल्पान्कुर्वति सति विद्याधरः(l.17)
प्रबुद्धः सन्मुखाद्गुलिका पतितेति च ज्ञातवान् संभ्रान्तश्चाभूत् ॥ ४६.
भूपालतिग्मरु(l.18)चिपादतिरोहितायां
तस्यां मनःकुमुदशाश्वतचन्द्रिकायाम् •
कष्टं नभश्चरशशी स्फुट(l.19) लक्ष्यमाण-
शङ्काकलङ्कमतिपाण्डुमुखं बभार ॥
नभश्चरो विद्याधर एव शशी मुखं स्फुटं(l.20) लक्ष्यमाणशङ्काकलङ्को
यस्य तद्वहन् यवोतिपाण्डुरम् कदा तन्मन एव कुमुदं तस्य नि(l.21*)त्यज्यो-
त्स्रायां गुलिकायां राज्ञःपाद एव सूर्यस्तेन च्छादितायां सत्यां, रविपादच्छादि-
तायां ज्योत्स्ना(l.1)यां सत्यां चन्द्रो दृश्यकलङ्कं मुखमग्रिमभागं वहति ॥ ४७.
शून्याशयस्थं वहतो वदनं विरूपं
सन्त्येव(l.2) तस्थुरिव नास्य विभूषणानि .
विच्छायतामुपगते तुहिनांशुबिम्बे
व्योम्नि स्थितान्यपि हि नैव विभान्त्युडू(l.3)नि ॥
शून्यहृदयत्वाद्विच्छायं मुखं दधतोस्य वर्त्तमानान्यपि भूषणानि न
तस्थुरिव चन्द्रे म्लाने व्यो(l.4) मस्थान्यप्युडूनि नैव शोभन्ते ॥ ४८.
उत्तिष्ठता धरणिपालमनेन दृष्ट्वा
व्रीडाभरादवनताननताम(l.5)वाप्य .
ऊर्ध्वे गतेरवसरस्सकलस्ससाप्त
इत्याशयेन वसुधेव परीच्यते स्म ॥
शयनादुत्तिष्ठता(l.6) विद्मधरेण राजानं दृष्ट्वा लज्जाभरान्नतमुखत्वं
प्राप्याकाशगमनार्थ सकलः कालो गत इति(l.7) भावेनेव भूरीक्षिता ॥ ४९.
1 Ms. सत्तूं॰. 2 Ms. राजापां. 3 Ms. ॰शयास्य.