प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 54, कुल 296 में से
संदर्भ में पढ़ें( ५१ )
रामः-मैथिलि ! किमिदम् ? इक्ष्वाकूणां वृद्धालङ्कारस्त्वया
धार्यते । अस्त्यस्माकं प्रीतिः । आनय ।
सीता-मा खलु मा खल्वार्यपुत्रोऽमङ्गलं भणतु ।
रामः-मैथिलि ! किमर्थम् वारयसि ?
सीता-उज्झिताभिषेकस्यार्यपुत्रस्यामङ्गलमिव मे प्रतिभाति ।
रामः- मा स्वयं मन्युमुत्पाद्य परिहासे विशेषतः ।
शरीरार्धेन मे पूर्वमाबद्धा हि यदा त्वया ॥ (१०)
(नेपथ्ये)
हा हा महाराजः ।
सीता— आर्यपुत्र ! किमेतत् ?
रामः-(आकर्ण्य)
नारीणां पुरुषाणा च निर्मर्यादो यदा ध्वनिः ।
सुव्यक्तं प्रभवामीति मूले दैवेन ताडितम् ॥ (११)
तूर्णम् ज्ञायतां शब्दः ।
शब्दार्थः—पारयति = समर्थ है । अलीकम्-असत्य को । धारयिष्ये=
पकडे रहूँगा । निर्वर्ण्य = देखकर । सूर्यरश्मयः=सूर्य की किरणे । परिज्ञातम्
=समझ लिया है । नियमस्पृहा=व्रत लेने की अभिलाषा । वृद्धालङ्कार =
बुढापे की शोभा । वारयसि=मना कर रही हो । उज्झिताभिषेकस्य =
राज्याभिषेक का परित्याग करने वाले । अमङ्गलम् इव=अशुभ के समान ।
प्रतिभाति=ज्ञात होता है । मा=मत । मन्युम्=क्रोध को । उत्पाद्य = उत्पन्न
करके । शरीरार्धेन=शरीर के आधे भाग द्वारा । आबद्धा = बाध लिया है ।
निर्मर्यादः=उच्चता की सीमा से रहित अर्थात् करुणापूर्ण । सुव्यक्तम्=सुस्पष्ट
है । प्रभवामि=समर्थ हूँ । मूले प्रधान स्थान बने महाराज पर । दैवेन=
विधाता के द्वारा । ताडितम्=प्रहार किया गया है । तूर्णम्-शीघ्रता से ।
अन्वयः—आदर्शे वल्कलानि इव एते सूर्यरश्मय किम् हसितेन परिज्ञा-
तम्, इयं क्रीडा, नियमस्पृहा । (६)
अन्वयः—परिहासे स्वयं मन्यु मा उत्पाद्य । हि यदा मे शरीरार्धेन
त्वया पूर्वम् आबद्धा । (१०)
अन्वयः—नारीणा पुरुषाणा च यदा निर्मर्यादः ध्वनिः, प्रभवामि इति
दैवेन मूले ताडितम् इति सुव्यक्तम् । (११)