सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 171, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 171

192 )
भरत—कृतकृत्य हूँ । आर्य, राज्य के भार को स्वीकार करो ।
राम—वत्स, क्यो ?
कैकेयी—पुत्र, हमारी यह इच्छा तो बहुत दिनो से है ।
(४) मूल
(ततः प्रविशति शत्रुघ्नः)
शत्रुघ्नः—विविधैर्व्यसनैः क्लिष्टमक्लिष्टगुणतेजसम् ।
द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरुम् ॥ (८)
(उपगम्य) आर्य ! शत्रुघ्नोऽहमभिवादये ।
राम.—एह्येहि वत्स ! स्वस्ति, आयुष्मान् भव ।
शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्ये ! अभिवादये ।
सीता--वत्स ! चिरजीव ।
शत्रुघ्नः--अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
लक्ष्मणः--स्वस्ति, आयुष्मान् भव ।
शत्रुघ्नः—अनुगृहीतोऽस्मि । आर्य ! एतौ वसिष्ठवामदेवौ सह प्रकृति-
भिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषतः ।
तीर्थोदकेन मुनिभिः स्वयमाहृतेन
नानानदीनदगतेन तव प्रसादात् ।
इच्छन्ति ते मुनिगणाः प्रथमाभिषिक्तं
द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ॥ (६)
कैकेयी—गच्छ जात ! अभिलषाभिषेकम् ।
रामः—यदाज्ञापयत्यम्बा । (निष्क्रान्तः)
(नेपथ्ये)
जयतु भवान् । जयतु स्वामी । जयतु महाराजः ।
जयतु देवः । जयतु भद्रमुखः । जयत्वार्यः ।
जयतु रावणान्तकः ।
कैकेयी—एते पुरोहिताः काञ्चुकिनः पुत्रकस्य मे विजयघोषं वर्धयन्त
आशिभिः पूजयन्ति ।
सुमित्रा—प्रकृतयः परिचायिकाः सज्जनाश्च पुत्रकस्य मे विजय
वर्धयन्ति ।