प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 5, कुल 274 में से
संदर्भ में पढ़ेंसमालोचन। २
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च ।
सस्मार चतुरो वेदान् योगमास्थाय तत्त्ववित् ॥
धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससंग्रहम् । भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥
सर्वशास्त्रार्थसम्पन्नं सर्वशिल्पप्रदर्शकम् । नाट्यसंज्ञमिमं वेदं सेतिहासं करोम्यहम् ॥
एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन् । नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम् ॥
जग्राह पाठ्यमृग्वेदात्सामभ्यो गीतिमेव च । यजुर्वेदादभिनयान् रसादाथर्वणादपि ॥
वेदोपवेदैः सम्बद्धो नाट्यवेदो महात्मना । एवं भगवता सृष्टो ब्रह्मणा ललितात्मकम् ॥
आज्ञापितो विदित्वाहं नाट्यवेदं पितामहात् ।
पुत्रानध्यापयं योग्यान्प्रयोगं चास्य तत्त्वतः ॥
एवं प्रयोगे प्रारब्धे दैत्यदानवनाशने । अभवन् क्षुभिताः सर्वे दैत्याये तत्र सङ्गताः ॥
देवतानामृषीणाञ्च राज्ञामथ कुटुम्बिनाम् । कृतानुकरणं लोके नाट्यमित्यभिधीयते ॥
शारदातनयने भी अपने 'भावप्रकाशन' नामक प्रसिद्ध ग्रन्थमें लिखा है:—
'कल्पस्यान्ते कदाचित्त दग्ध्वा लोकान् महेश्वरः ।
स्वेमहिन्नि स्थितः स्वैरं नृत्यन्नानन्दनिर्भरम् ॥
मनसैवासृजद्विष्णुं ब्रह्माणं च महेश्वरः । नियोगाद्देवदेवस्य ब्रह्मा लोकानथासृजत् ॥
दृष्ट्वा स देवदेवस्य पुरावृत्तमथास्मरत् । दिव्यं चारित्रमैशं मे कथमध्यक्षतामियात् ॥
इति चिन्तापरे तस्मिन्नभ्यागान्नन्दिकेश्वरः । स नाट्यवेदमध्याप्य सप्रयोगं चतुर्मुखम्॥
उवाच वाक्यं भगवान्नन्दी तच्चिन्तिताथँवित् ।
नाट्यवेदोपदिष्टानि रूपकाणि च यानि तु ॥
विधाय तेषामेकं तु रूपकं लक्षणान्वितम् ।
भरतेषु प्रयोक्तव्यं त्वया सम्यग् विजानता ॥
तस्मिन्प्रयुक्ते भरतैर्भावाभिनयकोविदैः ।
प्राक्तनानि च कर्माणि प्रत्यक्षाणि भवन्ति ते ॥
एवं ब्रुवन्नन्तरधान्नन्दी स भगवान्प्रभुः । श्रुत्वैतद्वचनं प्रीतो ब्रह्मा दैवैः समन्वितः ॥
ततस्त्रिपुरदाहाख्यं रूपकं सम्यगभ्यधात् ।
अध्याप्य भरतानेतत् प्रयुङ्ग्ध्वमिति चाब्रवीत् ॥
ततस्त्रिपुरदाहाख्ये कदाचिद् ब्रह्मसंसदि । प्रयुज्यमाने भरतैर्भावाभिनयकोविदैः ॥
तदेतत्प्रेक्षमाणस्य मुखेभ्यो ब्रह्मणः क्रमात् ।
वृत्तिभिः सह चत्वारः शृङ्गाराद्या विनिर्गताः ॥
उपर्युक्त समीक्षा तथा उद्धरणोंसे यह असन्दिग्ध रूपसे कहा जासकता है कि सस्कृत
नाटक साहित्यने अपने क्रमबद्धविकासमे वैदिकवाङ्मय, इतिहास तथा पुराणों से ही प्रेरणा
पाई है । हाँ, इसमें मतभेद नहीं हो सकता कि भारतीय नाटकोंके विकासमे पर्याप्त काल
लगा होगा ।