सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished274 पृष्ठ

पृष्ठ 205, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 205
पृष्ठ 205 स्कैन

पञ्चमोऽङ्कः १८७
मनः—देवि, यद्यप्येवं तथापि न शक्नोमि शोकानलदग्धः प्राणा-
न्धारयितुम् । संपन्नं यदन्तकाले त्वं तावद्दृष्टासि ।
सरस्वती—इदं च परमकृत्यं यदात्महत्याव्यवसाय इति । अपि च,
अमीषामपकारिणामर्थे कोऽयमत्य्यावेशो भवतः । पश्य तावत्—
क्वचिदुपकृतिः कर्तामीभिः कृता क्रियतेऽथवा
तव न च भवन्त्येते पुंसां सुखाय परिग्रहाः ।
यन्तः दीप्तशिखाससहस्रशिखिराः प्रज्वलितानकेशिखाभृताः शोकद्रुमाः शोकरूपाः
पादपाः रोहन्ति प्रादुरासते । बीजादङ्कुरस्य ततश्च वृक्षस्योत्पत्तिस्तत्र प्रियत्वाभिमान
बीजैः स्नेहाङ्कुरोत्पत्तौ ततः शोकाख्यवृक्षस्य जन्म भवति, यः शोकवृक्षस्तृषाग्निवद्देहं
दहति, ज्वालाप्रदाः दुःखस्मृतिरूपाः शिखास्तासां सहस्रमेव शिखरदेशस्तैर्युक्तश्चा-
सौ शोकतस्रुर्भवति, कुत्रापि वृक्षे शिखरदेशो वर्ण्यतेऽत्र दुःखान्तरस्मृतय एव तत्स्था-
नीया इति बोध्यम् । तदेव प्रियत्वाभिमानस्य बीजभावः, स्नेहस्याङ्कुरत्व, तजस्य
शोकस्य वृक्षत्वमित्यायातम् । 'कुकूलहुतभुग्दाहम्' इत्यत्र 'उपमाने कर्मणि च'
इति णमुल् । 'कुकूलं शङ्कुभिः पूर्णे श्वभ्रे नातु तुषानले' इति कोषः । पूर्वोक्ताविप
रीतं वृत्तम् ॥ १६ ॥
यद्यप्येवम्—यद्यपि त्वदुक्तं सत्य युक्तियुक्तञ्च । शोकानलदग्धः-खेदज्वालापरीततः
प्राणान् धारयितुम्-जीवनं रक्षितुम् । सम्पन्नम्-कृतंकृत्यस् । इदं मम कृत्यानां
पूर्णत्वं यदवसानसमये भवत्यादर्शनं जातमिति भावः ।
परम्-अतिमहत् । अकृत्यम्-अकर्त्तव्यम् । आत्महत्याव्यवसायः-आत्मवधचेष्टा ।
अमीषाम्-कामादीनाम् । अपकारिणाम्-अपकारकरणानाम् । अस्यावेशः अस्यौत्सुक्यम् ।
क्वचिदुपपतिरिति० अमीभिः क्वचित् कुत्रापि पुंसाम् उपकृतिः उपकारः कर्त्ता
करिष्यते कृता विहिता, अथवा क्रियते, इमे कालत्रयेऽपि पुमांस नोपकुर्वन्तीत्यर्थः,
(अतः) एते परिग्रहाः पुत्रकलत्रादयः तव सुखाय प्रीतये न भवन्ति, एषामसुख-
जनकता स्वभाववत्ता नासीभिरुपकारं कामयेथा इति तात्पर्यम् । (किञ्चामी परि-
ग्रहाः) विरहे वियोगे मर्मच्छेदं हृदयस्यात्यन्तिकीं व्यथां दधति उत्पादयन्ति, तदपि
मन—यद्यपि बात ऐसी ही है फिर भी शोकानलदग्ध मै प्राण धारण नहीं कर
सकता । यह ठीक रहा कि अन्त समयमें तुमसे भेंट हो गई ।
सरस्वती—आत्महत्या करना तो अत्यन्त घृणित कार्य है । और इन अपकारियोके
सम्बन्धमे तुमको इतना आवेश ही क्यो हो रहा है ? देखो—
तुम्हारा क्या इनसे कभी उपकार हुआ, हो रहा है, या होने वाला है, यह पुत्र दार